________________
बिनलाभ
द्वितीय
C
देशवित
विरचिते
बारमप्रयोपान् ॥२४४॥
॥२४॥
A-A-CIAAS
स्तुप्राप्त्या पंचनं प्राप्तः, शुद्धवस्तुभागी च न बभूव । अयं हि लौकिकदृष्टांतः प्रोक्तः, अथायमेवात्मोपरि आनेतव्य| स्तथाहि- यः स्वर्णकंकणग्राही पुमान् सोऽत्र धर्मार्थी जीवः, यश्च स्वर्णकार सोऽत्र निवादिः कुगुरुः,यच्च प्राक स्वर्णमयं कंकणं तेन दर्शितं,तदन्त्र प्राक प्रत्याख्यानदानदयादिधर्मकृत्यं तेन दयते, यत्पुनस्तेन स्वविश्वासमुत्पाद्य तस्मै पित्तलमयं कंकण दत्तं, तदत्र कुदृष्टिना विविधवचाकल्पनया तच्चित्तं व्युद्ग्राह्य एकांतवादयुक्तं श्रीमदहें द्धर्मविरुद्धं धर्मखरूपं तस्मै ग्राह्यते,ततश्च स यथा तत्प्रेरितत्वात्सत्पुरुषवाक्यं द्वेषमूलकं ज्ञात्वा नामस्त, तथाऽयमपि मिथ्यात्विव्युदग्राहितचित्तत्वात् शुद्धधर्मोपदेशकगुरुवचनं द्वेषसंभवं ज्ञात्वा न मन्यते । ततः स यथाऽशुवस्तु
प्राप्त्या वंचनं प्राप्तस्तथाऽयमपि शुद्धधर्माप्राप्त्या वंचनं प्राप्तः सन् दुर्गतिभाग्भवति, पश्चात्तत्सद्धर्मप्राप्तिदुर्लभा ~ी भवेत् । तस्माद्भो भव्या ! यदि भवतां शुद्धधर्मेच्छा स्यात्तर्हि प्रथमत एव नियादिकुदृष्टीनां वचनेषु विश्वास
परिहरत, श्रीमदर्हत्प्रणीतानेकांतधर्मोपदेशकसद्गुरुवचनेषु च विश्वासं कुरुन, येन सद्यः परमात्मसंपदः प्रादु र्भवेयुः। इति कुदृष्टियचनविश्वासे स्वर्णकंकणनिर्मापकोपनयः । इत्युक्तं सप्रसंग देशविरतिस्वरूपं । इत्थं स्वरूपं परमात्मरूप-निरूपकं चित्रगुणं पवित्रं । सुश्रावकत्वं परिगृह्य भव्या, भजंतु दिव्यं सुग्बमक्षयं च ॥१॥ लेशा. देशाद्विरते-विचार एषोऽत्र वर्णितोऽस्ति मया। अनुसाराग्रंथस्यो-पदेशचिंतामणिप्रभृतः ॥२॥ ॥ इति श्रीमदबृहत्खरतरगच्छाधिराजश्रीजिनभक्तिमरींद्रचरणाजहंसोपमैः श्रीजिनलाभसरिभिः संगृहीते
आत्मप्रबोधग्रंथे देशविरतिनिर्णयो नाम द्वितीयः प्रकाशः समाप्तः ॥ श्रीरस्तु ।।
44+KARAMER
Jain Education Inter
For Private & Personal use only
Flww.jainelibrary.org