SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ तन्नैश्चयिकसम्यक्त्वस्य कारणीभूतं व्यावहारिकं सम्यक्त्वं बोध्यं.इदमत्र तात्पर्य-यः किल अपगतरागद्वेषमोहः 18 आत्म-15 स एव देवस्ताहशस्तु श्रीमान् अर्हन्नेव, नापरे हरिहरादयस्तेषां स्त्रीशस्त्रजपमालादे रागादिचिह्नस्य व्यक्तस्यैव | प्रथमः प्रबोधग्रन्थे वीक्षणात्. ननु भवत्वेषां रागादिमत्त्वं कास्माकं हानिरिति चेन्न. रागादिकलुषिततया तेषामद्याप्यमुक्तत्वेन प्रकाशे मुक्तिदानाध्योगात्; मुक्त्यर्थमेव च देवस्याप्यभिप्रेतत्वात्. न च वाच्यं नित्यमुक्त्या अमीन लिप्यन्ते रागादि सम्यक्त्व भिरिति; नित्यमुक्तानां पुनर्भवाभावात् , श्रूयंते च पुनर्भवा एषां अवतारा ह्यसंख्येया इति पुराणोक्तिबलात् . स्वल्पं ॥१०॥ ननु मा भवतु मुक्तिदायकत्वं, तथापि राज्यादिदातृत्वं रोगाद्यपायवारकत्वं च वर्तते एव अमीषां साक्षाद्विला8 कनादिति चेन्न एवं सति तथाविधपार्थिवादीनां भिषणादीनां च देवत्वप्रसंगात्. न च वाच्यं पार्थिवादयस्तु: परेभ्यः कर्मानुसारेणैव दान धिकमिति, तेषामपि तथैव प्रवृत्तेः. न हि सर्वेऽपि तद्भक्तराजानो नीरुजो वा संति. अनुभवविरुद्धत्वात् . यदाहुः-यद्यावद्यादृशं येन । कृतं कर्म शुभाशुभं ॥ तत्तावत्तादृशं तस्य । फल-17 मीशः प्रयच्छति ॥ १॥ इत्यलं विस्तरेण. तथा ये पृथिव्यादिषट्कायविराधनतो निवृत्ताः सद्ज्ञानिनस्त एव 3 | पुरवो नापरे द्विजादयस्तेषां सारंभप्रवृत्तत्वेन सदा षट्कायोपमर्दनसंभवात् . ननु भवतु षट्कायोपमर्दकत्वं परं ब्राह्मणजातित्वमस्त्येवेति चेन्न, ब्राह्मणजातित्वेऽपि व्रात्यस्य निंद्यत्वात्. तदभावेऽपि पारासरविश्वामित्रादीनां पूज्यत्वाभिधानात् . यदाहुः-श्वपाकीगर्भसंभूतः। पाराशरमहामुनिः ॥ तपसा ब्राह्मणो जात-स्तस्माजातिरकारणं ॥१॥ कैवत्तौगर्भसंभूतो। व्यासो नाम महामुनिः॥ तप.॥२॥ शशकीगर्भसंभूतः। शुको PRAct Tein Education Inteme For Private & Personal Use Only Nalaww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy