________________
जिनलाभ
मरि विरचिते
आत्मप्रबोधग्रन्थे ॥२४॥
देवाविरति स्वरूप ॥२४॥
1344AGIAS
गत्वा तावद्रव्यमानय, अत्रार्थे विलंबं मा कार्षीः, श्रेयांसि बहुविनानीत्यायुक्तत्वात् । तदा स प्रोचे-'शतं विहाय भोक्तव्यमिति नीतिवचनं विद्यते, अतो भोजनं कृत्वा स्थिरचित्तो भूत्वा पश्चाद्व्याध यास्यामि ।' ततस्तया प्रातिवेश्मिकगृहाच्चूर्णादि समानीय सद्योऽन्नपाकं निष्पाद्य तस्मै भोजनं कारयित्वा पुनः प्रोक्तं-'स्वामिनथ शीघ्रं तत्र गत्वा स्वकार्य साधय ।' तदा स प्रोचे-' भुक्त्वा शतपदं गच्छे-द्यदि शय्या न लभ्यते' इति शास्त्रे उक्तत्वात् क्षणं शयित्वा पश्चाद्यास्यामीत्युक्त्वा सुप्तः, परं दरिद्रस्य प्रायो निद्रा बही भवति, अतः स बहुनिद्रया व्याप्तः सन् तथा सुप्तो यथा बहुभिः कराच्छोटनधूननादिक्रियाभिः स्त्रिया सद्यः प्रयोध्यमानोऽपि तृती | यप्रहरे कष्टेन प्रबुद्धः, ततः पुनर्भार्याप्रेरितः स विप्रो गृहान्निःमृत्य चतुष्पथमार्गेण गच्छन्नंतराले नाटकं जायमानं विलोक्य चिंतयति स्म-' अद्यापि दिन बहु विद्यतेऽतो नाटयं दृष्ट्वा पश्चात्सद्यो द्रव्यमानेष्यामि' इति विचित्य नाटकं पूर्ण वीक्ष्याग्रे वजन् मार्गमध्ये स्थाने स्थाने कौतुकानि विलोकयन् दिवसं च गच्छंतमजानन् सूर्यास्तगमनसमये नृपभांडागारसमीपं प्राप्तः, तत्र च सूर्यास्तगमनाद्भांडागारद्वारे तालकं दत्त्वा स्वगृहं गच्छंतं भांडागारिणं प्रति स विप्रस्तत्पत्रं दर्शितवान्, तेन च पत्रं दृष्ट्वा प्रोक्तं-'भो विप्र! नृपोक्तनियमस्य पूर्णीभवनादथ त्वं किमपि न प्राप्स्यसि, अतः स्वगृहं गच्छ' । ततःल प्रमादशाद्धनमप्राप्य हस्तौ घर्षयन पश्चात्तापं कुर्वन् ततो व्यावृत्त्य स्व-3 गृहमायातः, प्राग्वद्दरिद्र एव च स्थितः। अयं च लौकिकदृष्टांतः प्रोक्तः, अधात्मोपर्येतदुपनयः कार्यः । तथाहि
संसारनगरे दरिद्रव्राह्मणप्रायो महादुःखी संमारी जीवस्नस्य सत्कार्ये प्रेरिका सुमतिश्च भार्योपमा, तथा राज्ञः
क
Jain Educat an inte
For Private & Personal Use Only
L
ww.jainelibrary.org