________________
बिनलाभ
द्वितीय
परि
विरचिते
बारमप्रयोषान्बे ॥२४॥
प्रकाशे देशविरवि
खरूप ॥२४॥
तत इत्थं प्रभुवचः श्रुत्वा स मदुको हृष्टः सन् स्वामिनं नत्वा धर्मोपदेशं च श्रुत्वा स्वस्थानं जगाम। आयुःक्षये च अरुणाभविमाने देवत्वेनोल्पन्नो महाविदेहे च सेत्स्यति । इति मददुकश्राद्धवृत्तांतः॥ अथैवंविधं श्रावकत्वमवाप्य तत्पालनाय सर्वथा प्रमादपरित्यागो विधेय इति दयते
निशम्य विप्रोपनयं सुधीभिः, प्रमादसंगोऽपिन कार्य एव ।
इहोत्तरत्रापि समृद्धिहेतो, महोज्ज्वलेऽस्मिन्निजधर्मकार्ये ।। ८६ ।। व्याख्या-सुधीभिः-सुष्टुवुद्धिभिर्भव्यैदरिद्रब्राह्मणस्योपनयं निशम्य-श्रुत्वा पश्चात्तापकारणस्य प्रमादस्य संगोऽपि न कर्त्तव्य एव, प्रमादसेवा तु दूरे तिष्ठतु इत्यपि शब्दार्थः, कुत्रेत्याह-इह भवे उत्तरभवे च समृद्धिकारणेऽत एव महानिर्मलेऽस्मिन्-देशविरतिलक्षणे आत्मधर्मकार्ये इति । एतावता धर्मकार्ये सदा निरालस्यैरेव भाव्यमित्यर्थः । दरिद्रब्राह्मणोपनयस्त्वेवं
कस्मिंश्चिन्नगरे एक आजन्मदरिद्रो महाऽऽलस्यवान् विप्रो वसति स्म। स चैकदा स्वस्त्रिया प्रेरितः सन् दानग्रहणार्थ नृपपार्श्वे ययौ,तदा चिरंजीवेत्यादिवाचाऽऽशिषं ददानं तं विप्रं आकृत्यादिना महादारिद्याभिभूतं विज्ञायानुकंपापूरितहृदयेन राज्ञा प्रोक्तं-'भो विप्र! सूर्यास्तगमनादर्वाग् यदृच्छया मद्भांडागाराद्रव्यं गृहीत्वा त्वं स्वगृहं पूरय, ममाज्ञास्ति' इत्युक्त्वा तत्प्रवृत्तिसूचकं स्वनामांकितं पत्रं लेखयित्वा तस्मै दत्तं । सोऽपि हृष्टः | सन् तत्पत्रं गृहीत्वा स्वगृहमागत्य स्वपत्न्यै सर्वमपि तं वृत्तांतं निवेदितवान् । तदा पत्न्या भणितं-'स्वामिस्तत्र
AA-AAAAAA
lain Educatan inte
For Private & Personal use only
N
www.jainelibrary.org