________________
जिनलाभ-
सरि
द्वितीय प्रकाशे देशविरवि
विरचिते
*
आत्म
॥२३॥
॥२३५॥
भहेतुत्दात्तनिषेधोऽप्यापयेत, न च तनिषेधः शिष्टानामिष्ट:-छत्जीवकायसंजमो, दव्वत्थए सो विरुज्झए कसिणो। तो कसिणसंजमविऊ, पुप्फाईयं न इच्छति ॥ १॥ अकसिणपवत्तयाण, विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे, दश्वत्थए ४ कूवदिट्ठतो ॥२॥
इत्याद्यागमप्रामाण्यादिति पर्याप्त प्रपंचेन । तदेवं देवपूजां विधाय तदनंतरं विनयेन गुरुवंदनं समाचरेत् ।। ततोऽसौ यत्करोति तदुच्यते
शंगी यथा क्षारजले पयोनिधी, वसन्नपि स्वादुजलं पिबेत्सदा ।
तथैव जैनामृतवाणीमादरा-द्रजेद्गृही संमृतिमध्यगोऽपि सन् ॥ ८२ ॥ व्याख्या-शंगमस्यास्तीति शंगी-मत्स्यविशेषः, म यथा क्षारजलभृते समुद्रे वसन्नपि तत्रैव गंगादिसरित्प्रवेशस्थानस्थितं मिष्टं जलमुपलक्ष्य सदा तदेव जलं पिबेत् , तथैव गृही-श्रावकः संसारक्षारसमुद्रमध्यस्थितोऽपि सन् गुरुसन्निधौ गत्वाऽऽदराजिनप्रणीतामृततुल्यवागी सर्वदा भजेत् शृणुयादित्यर्थः। ततो बालग्लानादिसाधूनां प्रातराशौषधादिदाने यत्नवान् भवतीत्यनुक्तमपि द्रष्टव्यं । तदनंतरं यद्विधत्ते तद्दश्यते
x “ यथा हि तृष्णातापादिबाधितैस्तद्पगमनिमित्त कूपखननारंभे क्रियमाणेऽधिकतरं तेषां तृष्णाश्रमादयो जायन्ते, स्खनिते च तस्मिन् विपुलं शीतलं जलमासाद्य तेषामन्येषां च तृष्णाद्यपगमः सम्पद्यते, एवं व्यस्तवे यद्यप्यसंयमो भवेत्तथापि कारितान् जिनगृहादीन् दृष्ट्वा तेषामन्येषां च स कोऽपि विशुद्धपरिणामो भवेद्यो भूरिभवार्जितानि द्रव्यस्तवकृतानि च पापानि स्फेटयित्वा निर्वृतिं जनयति" इति पुष्पमालालधुवृत्तौ ।
Jain Education Inten
For Private & Personal use only
K
ww.jainelibrary.org