SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ A द्वितीय प्रकाशे देशविरति जिनलाभ भरि विरचिते आत्मप्रबोधग्रन्थे ॥२३६॥ खरूप ॥२३६॥ 4%25ASA द्रव्यार्जन सयवहारशुद्धघा, करोति सदोजनमादरेण । पूजादिकृत्यानि विधाय पूर्व, निजोचितं मुक्तविशेषलौल्यः॥८३॥ व्याख्या-म श्रावकस्ततो व्यवहारशुद्धया द्रव्योपार्जनं करोति, तदनंतरं च पूर्वमादरेण मध्याहिकी देवपूजां कृत्वा तथा मुनिभ्यो दानं दत्वा तथा वृद्धातुरातिथिचतुष्पदादेश्चितां कृत्वा त्यक्तविशेषलोल्या सन् निजोचितं सद्भोजनं करोति । एतावता सूतकाभक्ष्यादिलोकविरुद्धं संसक्तानंतकायाद्यागमविरुद्धं मद्यमांसाधुभयविरुद्धं च भोजनं न कुर्यात् । तथा लोल्यात्स्वकीयमग्निबलमविचार्याधिकमपि न भुक्ते । तच्चोत्तरकाले वमनविरेचनरोगो त्पत्तिमरणादिबबनर्थकारकं स्यादतो मितमेव भुक्ते इत्यर्थः। ततो धर्मशास्त्रपरमार्थचिंतनेनोचितव्यवसायेन चा. पराह्नं गमयित्वा अस्तमनादक संध्यायां पुनर्जिनपूजां करोति । तथा द्विभुक्तप्रत्याख्यानं चेत्कृतं भवेत्तार्ह च तुर्घटिकादिशेषे दिने वैकालिकं कुर्यादित्याद्यनुक्तमपि मंतव्यं । त्रिकालपूजाविधानं त्वित्थं प्रातः प्रपूजयेद्बास-मध्याहे कुसुमैर्जिनं । संध्यायां धूपनैर्दीपै-स्त्रिधा देवं प्रपूजयेत् ॥१॥ वासश्चंदनाविद्र व्यरित्यर्थः । एवं दिनकृत्यान्युक्त्वाऽथ रात्रिकृत्यं किंचिदुच्यते कृत्वा षडावश्यकधर्मकृत्यं, करोति निद्रामुचितक्षणे च । हृदि स्मरन् पंचनमस्कृति स, प्रायः किलाब्रह्म विवर्जयश्च ॥ ८४ ॥ व्याख्या-तदनंतरं सावकः षडावश्यकरूपं धर्मकृत्यं कृत्वोचितक्षणे-योग्यायां वेलायां निद्रां करोति ।। ASSAGE Jain Education Inter For Private & Personal use only X ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy