SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ जिनलाभ वरि विरचिते आत्म प्रबोधग्रन्थे ॥२३४॥ Jain Education Inter विभाव्य चेत्थं समये दया दु-रावश्यकं शुद्धमनोंगवस्त्रः । जिनेंद्रपूजां गुरुवंदनं च समाचरेन्नित्यमनुक्रमेण ॥ ८१ ॥ व्याख्या - दयालुः श्रावक इत्थं पूर्वोक्तप्रकारेण स्वमनःसमक्षं विभाव्य समयेऽवसरेऽर्थान्मुहूर्त्तशेषायां रात्रौ आवश्यक-सामायिकादिप्रत्याख्यानपर्यंत लोकोत्तरं भावावश्यकं समाचरेत् । यश्च व्याकुलत्वात् षडावश्यकं कर्त्तुं न शक्नोति, सोऽपि नियमाप्रत्याख्यानावश्यकं यथाशक्ति चिंतयति, यदुत जघन्यतोऽपि श्राद्धेन नमस्कारसहितं प्रत्याख्यानं तु कर्त्तव्यमेवेति । ततो दृश्यार्धबिंबे सूर्ये सति शुद्धानि मनोंगवस्त्राणि यस्य स तथाभूतः सन् जिनेंद्र पूजां समाचरेत् । तत्र तावद्यतनया विधिपूर्व गृहप्रतिमापूजनं कृत्वा गृहीतपूजोपकरणः सन् महोत्सवेन जिनालये गत्वा मुखकोशं विधाय 'तिन्नि निसीहिये' त्यादिशास्त्रोक्तविधिना जिनपूजनं कुर्यात् । पूजाभेदास्तु प्रथमप्रकाशे ज्ञाताधर्मकथादिसिद्धांतानुसारेण सविस्तरं व्याख्याताः संतीत्यतस्ते तत एवावगंतव्याः, यच्च शुद्धमनोऽगवस्त्र इत्युक्तं तदित्थं प्रथमं सर्वसावद्याध्यवसायवर्जनं मनःशुद्धिः, ततो निर्जीवायां शुषिरकचवरादिरहि-' तायां च भूमौ अल्पेन वारिणा अल्पेन च करव्यापारेण सर्वांगस्नानमंगशुद्धिः, ततः शुचित्वेनाखंडितवस्त्रधारणंवस्त्रशुद्धिः, न च वाच्यं स्नानेन देहशुद्धिं विनापि देवपूजा युज्यते इति, आशातनाप्रसंगात् । यदि नाम आजन्म निर्मलशरीरधारिणो देवा अपि विशेषशुद्धयर्थं स्नात्वैव देवपूजार्थं प्रवत्तैरन्, तर्हि कथं नवैकादशस्रोतः स्रवन्निरंतर| दुर्गधमलैर्मानवैः स्नानं विना सा क्रियते ?, अत एव देवपूजाकारिणां सिद्धांते प्रतिपदं 'पहाया कयवलिकम्मे' स्यादि विशेषणं गृहीतं । ननु यतनापराणां श्रावकाणां बह्वारंभत्वात्स्नानमनुचितमिति चेन्न, जलधूपपुष्पादीनामप्यारं For Private & Personal Use Only द्वितीय प्रकाशे देशविरति स्वयं ॥२३४॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy