SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ जिनलाभ वरि विरचिते आत्म प्रबोधग्रन्थे ॥२३४॥ Jain Education Inter विभाव्य चेत्थं समये दया दु-रावश्यकं शुद्धमनोंगवस्त्रः । जिनेंद्रपूजां गुरुवंदनं च समाचरेन्नित्यमनुक्रमेण ॥ ८१ ॥ व्याख्या - दयालुः श्रावक इत्थं पूर्वोक्तप्रकारेण स्वमनःसमक्षं विभाव्य समयेऽवसरेऽर्थान्मुहूर्त्तशेषायां रात्रौ आवश्यक-सामायिकादिप्रत्याख्यानपर्यंत लोकोत्तरं भावावश्यकं समाचरेत् । यश्च व्याकुलत्वात् षडावश्यकं कर्त्तुं न शक्नोति, सोऽपि नियमाप्रत्याख्यानावश्यकं यथाशक्ति चिंतयति, यदुत जघन्यतोऽपि श्राद्धेन नमस्कारसहितं प्रत्याख्यानं तु कर्त्तव्यमेवेति । ततो दृश्यार्धबिंबे सूर्ये सति शुद्धानि मनोंगवस्त्राणि यस्य स तथाभूतः सन् जिनेंद्र पूजां समाचरेत् । तत्र तावद्यतनया विधिपूर्व गृहप्रतिमापूजनं कृत्वा गृहीतपूजोपकरणः सन् महोत्सवेन जिनालये गत्वा मुखकोशं विधाय 'तिन्नि निसीहिये' त्यादिशास्त्रोक्तविधिना जिनपूजनं कुर्यात् । पूजाभेदास्तु प्रथमप्रकाशे ज्ञाताधर्मकथादिसिद्धांतानुसारेण सविस्तरं व्याख्याताः संतीत्यतस्ते तत एवावगंतव्याः, यच्च शुद्धमनोऽगवस्त्र इत्युक्तं तदित्थं प्रथमं सर्वसावद्याध्यवसायवर्जनं मनःशुद्धिः, ततो निर्जीवायां शुषिरकचवरादिरहि-' तायां च भूमौ अल्पेन वारिणा अल्पेन च करव्यापारेण सर्वांगस्नानमंगशुद्धिः, ततः शुचित्वेनाखंडितवस्त्रधारणंवस्त्रशुद्धिः, न च वाच्यं स्नानेन देहशुद्धिं विनापि देवपूजा युज्यते इति, आशातनाप्रसंगात् । यदि नाम आजन्म निर्मलशरीरधारिणो देवा अपि विशेषशुद्धयर्थं स्नात्वैव देवपूजार्थं प्रवत्तैरन्, तर्हि कथं नवैकादशस्रोतः स्रवन्निरंतर| दुर्गधमलैर्मानवैः स्नानं विना सा क्रियते ?, अत एव देवपूजाकारिणां सिद्धांते प्रतिपदं 'पहाया कयवलिकम्मे' स्यादि विशेषणं गृहीतं । ननु यतनापराणां श्रावकाणां बह्वारंभत्वात्स्नानमनुचितमिति चेन्न, जलधूपपुष्पादीनामप्यारं For Private & Personal Use Only द्वितीय प्रकाशे देशविरति स्वयं ॥२३४॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy