SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ जिनलाभमूरि विरचिते आत्म प्रबोधग्रन्थे ॥२३१॥ Jain Education Inter नाशपरस्त्रीगमनेच्छा तत्कलाभिलाषक्रूर परिणामप्राणनाशधन हा निराजदंडाद्यपायकलवृद्ध्यादयो बहवो दोषाः संभवतीत्यतस्तद्वर्जनमेव युक्तमिति मंतव्यं । किंच - मातापित्रोर्भक्तः, कुलशीलसमै विहितवीवाहः । दीनातिथिसाधूनां प्रतिपत्तिकरो यथायोग्यं ॥ ७७ ॥ स्पष्टा, नवरं कुलमुग्रादि, शीलं धर्म आचारस्ताभ्यामुपलक्षणत्वाद् द्रव्यमहत्त्वाभ्यां च समैरात्मतुल्यैः सह विहितववाहः, विवाहबैषम्ये हि नित्यमुद्वेगाद्धर्महानिः स्यादिति । तथा परिहरति जनविरुद्ध, दीर्घ रोषं च मर्मवचनं च । इष्टः शत्रूणामपि परतप्तिविवर्जको भवति ॥ ७८ ॥ इयमपि स्पष्टार्था । नवरं जनस्य- शिष्टलोकस्य विरुद्धं यत्कार्यं तत्परिहरति । तचेदं "सव्वस्स चेव निंदा, विसेसओ तह य गुणसमिद्धा । उजुधम्माणं हसणं, रीढा जणपूयणिजाणं ॥ १ ॥ बहुजणविरुद्धसंगो, देसाइ आयारलंघणं चेव । एमाइयाई इत्थओ, लोगविरुद्वाई नेआई || २ ||" ति । तथा श्रवण पार्श्वस्थादीनामब्रह्मसेवादिदुराचारं दृष्ट्वाऽपि धर्मवैमुख्यं न धार्ये । यदुक्तं - " पासस्थाईण फुडं, अहम्मकम्मं निरिक्खए तहवि । सिढिलो होइ न धम्मे, एसो चित्र वंचिओ त्ति मई ||१|| एसो चिय ति एष एव वराको देवेन वंचितो य एवंविधमधरीकृत कल्पतरुमाहात्म्यम शेष सुखश्रेणिप्रदानसमर्थमपारसंसार सागरोत्तारणयानपात्रमतिपवित्रं चारित्रमवाप्येवं प्रवर्त्तते इति मतिर्यस्य स तथा भवेदित्यर्थः, तथा कस्यचित्साधोश्चेत्क्वापि स्खलितं पश्यति तर्हि तत्र निःस्नेहतां न भजेत्, किंत्वेकांते तस्मै मातापितराविव सुशिक्षां दद्यात् । यदुक्तं For Private & Personal Use Only द्वितीय प्रकाशे देवविरति स्वरूपं ॥२३१॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy