________________
जिनलाभ
सरि विरचिते
आत्मप्रबोधग्रन्थे ॥२३०॥
नानाACIRCR-90
एवमन्वयव्यतिरेकाभ्याममुं दृष्टांतं निशम्य विवेकिभिर्निशाऽशनपरिहारे उद्यतैर्भाव्यं । इत्युक्तं सप्रसंग श्राद्धप्रतिमाखरूपं ॥ अथ श्रावकस्य निवासयोग्यं यत् स्थानं तत्स्वरूपं दर्यते
द्वितीय ___ न चैत्यसार्मिकसाधुयोगो, यत्रास्ति तद्ग्रामपुरादिकेषु ।
देवविरति यतेष्वपि प्राज्यगुणैः परैश्च, कदापि न श्राद्धजना वसंति ॥ ७५॥ व्याख्या-परैरन्यैः प्राज्यबहुभिर्मुणः सौराज्यप्राज्यजलेधनधनार्जनस्वजनदुर्गादिभिर्युतेष्वपि तेषु ग्रामनग-181 ॥२३०॥ रादिषु श्राद्धजनाः कदापि न वसंति । कुत्रेत्याह-यत्र ग्रामादिषु चैत्यसाधर्मिकसाधूनां योगो नास्ति । तत्र चैत्यंजिनमंदिरं, सार्मिका:-समानधर्माराधका गृहस्थाः, साधवः-शुद्धधर्मोपदेष्टारो गुरवः, एतेषां योगो यत्र भवेत्त
त्रैव श्रावका वसंतीत्यर्थः । यदुक्तं-"बहुगुणआइण्णे वि हु, नगरे गामे च तत्थ न वसेइ । जत्थ न विजइ चेइय, | साहम्मी साधुसामग्गी ॥ १ ॥ अथ नगरादौ वसतां श्राद्धानां यत्पातिवेश्मिकता त्याज्या तत्स्वरूपं दर्यते
पाखंडिपारदारिक-नटनिर्दयशत्रुधूर्त्तपिशुनानां । चौरादीनां च गृहा-भ्यर्णे न वसंति सुश्राद्धाः ॥ ७६ ॥
व्याख्या-नगरादौ वसंतः सुश्रावकाः पाखंडिप्रभृतीनां गृहाभ्यणे-गृहसमीपे न वसंति-न निवासं कुर्वति । तत्र पाखंडिन:-कुलिंगिनः, पारदारिका:-कुशीलाः, नटा-वंशवरत्रादिभिः खेलकाः, निर्दया-जीवहिंसाकारकाः व्याधधीवरादयः, शत्रवो-वैरिणः, धृर्त्ता-बंचकाः, पिशुना:-परच्छिद्रान्वेषिणः, चौराश्चौर्यक्रियया परद्रव्यापहा. रिणः, आदिशब्दादमर्षणकारुडतकारविदूषकादयो बोध्याः। एषां हि पाचे वसतां श्राद्धानां क्रमेण सम्यक्त्व
DAAAAx
Jain Education Inter!
For Private & Personal use only
Niww.jainelibrary.org