________________
ॐॐ
द्वितीय
सरि
प्रकाशे देशविरवि
॥२२॥
जिनलाभ वर्तेते?, पुनम श्वासमारुतोऽद्य सुरभिः कथं नास्ति ?' तत इत्थं चिंतयंत केशवं प्रति यक्षःप्रोचे-'हे सत्पुरुष ।
धृष्टतां मुंच, शीघ्रं प्रातःकृत्यानि कृत्वा पारणं कुरु'। तदा स जगाद- हे यक्ष! तव दक्षतयाऽहं न वंच्यो, यतोविरचिते |
चत दद्यापि निशैवास्ति, अयं दिवसप्रकाशस्तु त्वन्मायासमुद्धव एव' अथेत्थं जल्पतः केशवस्य मस्तके आकाशात्पुष्पआत्मप्रबोधग्रन्थे
वृष्टिः पपात, तथा जयजयशब्दः प्रादुर्बभूव । तदा केशवः स्वमुखाग्रे एक कंचिद्दीप्तिव्याप्तं देवं ददर्श, परं यक्षं ॥२२६॥
यक्षगृहं यक्षार्चकजनांश्च न दृष्टवान् । ततः स देवस्तं प्रोचे-'हे महाधैर्यवान् ! हे पुण्यवतां शिरोरत्न! भवाशा. मुत्पत्त्यैवेयं पृथ्वी रत्नगर्भा निगद्यते । अद्य किलेंद्रेण स्वसभायां रात्रिभोजनत्यागे तवातीव धैर्य वर्णितं, तदसहमानोऽहं वहिनामा देवस्त्वां परीक्षितुमिहागमं, परं नियमे दृढचित्तस्य तव रोममात्रमपि चालयितुं नाहं सम
र्थोऽभूवं । अथाहं क्षमयामि, त्वयाऽपि मदपराधः क्षेतव्यः । किंच देवदर्शनं निष्फलं न भवति, अतस्त्वं मत्सका| शात्किंचिद्याचस्व । यद्वा भवादृशां सत्पुरुषाणां क याश्चा, परं मया स्वभक्तिदर्शनीया, अतस्तुभ्यं वरद्वयं दद्मि, अद्यप्रभृति यः कोऽपि रोगी पुमान् त्वदंगलग्नजलेन स्वशरीरं सेक्ष्यति स सद्यो नीरुग भविष्यति १ । तथा त्वं कदाचिदातुरः सन् यत्किचिचिंतयिष्यसि तत्कार्य शीघ्र भविष्यति २॥ इत्युक्त्वा साकेतपुरस्य पार्श्वे केशवं मुक्त्वा स | देवोऽदृश्यो बभूव । केशवोऽप्यात्मानं कस्यचिन्नगरस्य पार्श्वस्थं ददर्श । ततः सूर्योदयेऽसौ प्रातःक्रियां कृत्वा तन्नगरं द्रष्टुं व्रजन मार्गे आराममध्यस्थं नृपादिलोकेभ्यो धर्मोपदेशं ददानं कचिदाचार्य इष्टा तं महामंगलं मन्वानः सद्यस्तत्र गत्वा गुरुं नत्वाऽग्रे उपविष्टः, ततो देशनांते तन्नगरस्वामिना धनंजयभूपेन प्रणामपूर्वकं गुरुर्विज्ञप्तः-'हे
SECAUCARSAA
SEBERRC
%
Jain Education Interna
l
For Private & Personal use only
Alww.jainelibrary.org