________________
द्वितीय
++
प्रकाशे देशविरति
खरूपं
||२२४॥
लेऽलगन्, तथापि केशवस्तवचनं नामंस्त । तदा सद्यो यक्षशरीरादेको भीमाकारः पुमान्निःसृत्य हस्ते मुद्गरमुत्पा जिनलाभ 18 ट्य विकरालनेत्रः सन तीक्ष्णरूक्षवाण्यैनमुवाच-'अरे दुष्टात्मन् ! त्वं मम धर्म दूषयसि, पुनर्मद्भक्तानवगणयसि,
परि विरचिते
अधुना शीघ्रं मुंश्व, नो चेत्तव मस्तकं शतखंडं करोमि। तदा केशवो हसन्माह-'भो यक्ष! मां किं क्षोभयसि ?, आत्म- भवांतरोपार्जितप्रधानधर्मभाग्योदयान्मम मनागपि मरणभयं नास्ति'। ततो यक्षः स्वान किंकरानुवाच-'भो एत प्रबोधान्ये धर्मगुरुधृत्वाऽत्रानीयास्याने हंतव्यो, येनास्मै इत्थं धर्मोपदेशो दत्तोऽस्ति । तदा कशापाशधरैस्तस्य किंकरैरात॥२२४॥
घोषं कुर्वाणो धर्मघोषमुनिः सद्यः समानीय यक्षाग्रे मुक्तो, यक्षेणोक्तं-'भोः स्वशिष्यमिदानी भोजय, अन्यथा स्वां हन्मि'। तदा स मुनिः केशवं प्रति जगौ-'भो भद्र ! देवगुरुसंघकृतेऽकृत्यमपि कर्तव्यमतस्त्वं भोजनं कुरु, एतैर्हन्यमानं त्वद्गुरुं मां रक्ष'। एतद्वचः श्रुत्वा केशवोऽचिंतयत्-'यो महाधैर्यादिगुणसंपन्नः सन् स्वमेऽपि अयथार्थ न वक्ति स मद्गुरुर्मृत्युभियाऽन्योपदेशतः कथं पापकृत्येऽनुमति दद्यात् , तस्मानिश्चितमयं मद्गुरुर्नास्ति, किंत्वस्य यक्षस्य कापीयं माया विद्यते । इति विचित्य स मौनं कृत्वा स्थितस्तदा यक्षो मुनो मुद्गरमुत्पाव्य केशवं प्रति जगाद-'भो ! भुक्ष्व, नो चेत्वद्गुरुं हन्मि '। केशवोऽपि निःशंकं प्राह-'अरे मायिन् ! अयं मद्गुरु स्ति, यतस्ताक्चारित्रपात्रं मद्गुरुस्त्वादशां मंदशक्तीनां वश्यः कदापि न भवति। तदा 'स एवाहं त्वद्गुरुरस्मि, मां रक्ष रक्षे त्यारटन् स मुनिर्यक्षेण मुद्गरमहारतो हतः सन् भूमौ पपात । ततः स यक्षः केशवस्याग्रे आगत्य मुद्गरं भ्रामयन्नुवाच-'यदि त्वं सांप्रेतं मुंक्षे तर्हि अहं सद्यस्त्वद्गुरुं जीवयामि, तुभ्यं च प्राज्यराज्यद्धिं प्रयच्छामि,
05SGUSA
lain d
an Inter
For Plate & Personal Use Only
www.jainelibrary.org