________________
जिनलाभ
RA
द्वितीय प्रकाशे
परि
देशविरवि
खरूपं
विरचिते
आत्मप्रबोधग्रन्ये ॥२२३॥
॥२२३॥
सन् केशवं प्रति प्रोचे-'अरे दुर्विनीत! यदि मदचनं लंघसे तर्हि मम दृष्टिपथाहरीभव'। ततो महाधैर्यवान् स केशवस्तत्पितुर्वचः श्रुत्वा द्रव्यादिममतां त्यजन् सद्यो गृहान्निःससार। तदा तमनुगच्छतं हंसं प्रति यशोधनोबला. त्कारेण धृत्वा बहुभिवचनैः प्रलोभ्य भोजनार्थ निवेशितवान् । अथ स केशवस्ततो निःसृत्य देशांतरं ब्रजन मार्गे बहून्नगरपामारामादिप्रदेशान् लंघयन् सप्तमेऽप्यहि निराहार एव सन् क्वाप्पटव्यामटन् अर्धनिशासमये बहुभियात्रागतजनैर्युक्तं किंचिद्यक्षायतनं ददर्श । तत्र सजीकृतभोजनास्तत्रागतजनास्तमागच्छंतं दृष्ट्वा हर्षिताः संत इत्थं प्रोचुः-'हे पांथ! अत्र एहि एहि, भोज्यं गृहाण, अस्मभ्यं पुण्यं देहि, वयं हि आरब्धपारणाः संतोऽतिथि | गवेषयामः । तदा केशवस्तानूचे-'भो लोका! इदं कीहवतं ?, यस्य रात्रौ पारणं जायते'। ते प्रोचुः-'भोः पांथ ! | अयं महाप्रभावो माणवाख्यो यक्षोऽस्ति, अद्यास्य यात्रादिन विद्यते, अतोऽत्रागतैलोकैर्दिवसे उपवासं कृत्वाऽर्ध| निशायां कमप्यतिथिमादराद्भोजयित्वा पश्चात्पारणं विधेयं, येन तेषां महापुण्यप्राप्तिः स्यात् , तस्मात्त्वमद्यास्माकमतिथिर्भव'। केशवोऽवदत्- रात्रौ विधीयमानत्वान्महापापकारणेऽस्मिन् पारणेऽहं न भुंजे । किंच-यत्रैवं निशि भोजनं क्रियते सोऽयमुपवास एव नोच्यते, यतो धर्मशास्त्रेषु प्रहराष्टकं यावद्भोजनत्यागे उपवासः कीर्तितोऽस्ति । ये च धर्मशास्त्रविरुद्धं तपः कुर्वति ते दुर्बुद्धयो दुर्गतिं यांति । तदा तेऽवदन्-'अस्य देवस्य व्रतेऽयमेव विधिरस्ति, अतोऽत्र शास्त्रोक्तिमनुसृत्य युक्तायुक्तविचारणा न कर्तव्या । अस्माकं पुनरतिथिं गवेषयतां वहवी रात्रिर्जाता, तस्मात्त्वं विचारं विमुच्य सद्योऽस्मिन् पारणेऽग्रेसरो भव'। इत्युक्त्वा ते सर्वेऽप्युत्थाय तस्य पादत
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org