________________
द्वितीय
जिनलाभ
सरि विरचिते
आत्मप्रबोधग्रन्थे ॥२२॥
देवविरहि
॥२२॥
SECRECRC4%
मतिर्यशोधनः श्लक्ष्णं वच उवाच-'हे वत्सौ! यत्कार्य मम सौख्यदं स्यात्तदेव भवतोरिष्टमिति प्रतीति मनसि दधानोऽहं यत्किंचिद्ब्रवीमि तत्क्रियतां । भवतोर्निशाभोजनत्यागस्तु मया निश्चितं न ज्ञातोऽन्यथैतादृशे क्लेशका-2 रिणि कार्ये कथं भवन्नियोजनं कुर्या ?, इयंति दिनानि यावद्भवद्भ्यां भोजनेऽकृते सति भवजनन्याऽपि न भुक्तं, तेनास्या अथ षष्ठोपवासभवनात् इयं पाण्मासिकी युवयोर्भगिनी स्तन्यमलभमानाऽतिम्लानगात्रा जातास्ति । अद्यास्या बालाया गाने म्लानिं वीक्ष्य कारणं पृच्छतो मम भवदभोजनपूर्व सर्व वृत्तांतं भवजननी जगाद । त. स्मात् हे कृपालू! अस्यां वालायामनुकंपां विचार्य युवाभ्यां भुज्यतां, यथा युवयोर्मातापि संप्रति भुंक्ते । किंचनिशाया: प्रथम प्रहरार्द्ध पंडितैः प्रदोष उच्यते, पश्चिम प्रहराई तु प्रत्यूषमिति निगद्यते, अत एव रात्रिस्त्रियामेति लोके प्रसिद्धाऽस्ति । तदपेक्षया चेदानी निशामुखे यद्भोजनं तन्निशाभोजनं न भवेत् । तदेत्थं पितुर्वाण्या भिन्नः क्षुधा च विह्वलीकृतो हंसः केशवसन्मुखं दृष्टवान् । तदा केशवो ज्येष्ठभ्रातरं कातरीभूतं विभाव्य स्वयं निश्चलचित्तः सन् जनकं प्रति जगाद-' हे तात ! यत्कार्य तव सुखं करोति तदहं करोमि, परं यन्मे पातकं तत्कि ते सुखाय भवति ?, तथा यजनन्यादिवात्सल्यं तद्धर्मकर्मणः शल्यमस्ति, यतः सर्वोऽपि लोकः स्वकर्मफलं भुन|क्ति, अतः कः कस्यार्थेऽधं कुरुतात्, तथा यत्रियामास्वरूपमुक्तं तदपि कथनमात्रमस्ति, तत्त्वतस्तु दिवसस्य मुखे | अंते च यो मुहर्तः सोऽपि रात्रिसमीपवर्तित्वाद्रात्रितुल्य एव, अतस्तत्रापि सुधीभिर्न भोक्तव्यं, सांप्रतं तु निशैवास्ति,तस्मात् हे तात! एतत्कार्यमाश्रित्य भवताऽहं वारंवारं न वाच्यः। तदेवं तद्वचो निशम्य यशोधनः कुपितः
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org