________________
आत्म
प्रबोधग्रन्थे
॥ ८ ॥
Jain Education Interna
किं च प्रथमं सम्यक्त्वे लभ्यमाने कश्चित्सम्यक्त्वेन सह देशविरतिं सर्वविरतिं वा प्रतिपद्यते उक्तं च शतकबृहच्चूण "उबसमसम्मद्दिठ्ठी अंतरकरणडिओ कोइ देसविरई पि लहइ, कोइ पमत्तभावं पि, सासाइयणो पुण न किं पि लहेइ त्ति" एष कार्मग्रंथिकाभिप्रायः, सैद्धांतिकाभिप्रायः पुनरयं - अनादिमिथ्यादृष्टिः कोऽपि ग्रंथिभेदं विधाय तथाविधतीव्र परिणामोपेतत्वेनापूर्वकरणमारूढः सन् मिथ्यात्वं त्रिपुंजीकरोति ततोऽनिवृत्तिकरणसामर्थ्यात् शुद्धपुञ्जपुङ्गलान् वेदयन्नोपशमिकं सम्यक्त्वमलब्ध्यैव प्रथमत एव क्षायोपशमिकसम्यग्दृष्टिर्भवति, अन्यस्तु कश्चिजीवो यथाप्रवृत्त्यादिकरणत्रय क्रमेणांतरकरणाद्यसमये औपशमिकं सम्यक्त्वं लभते, पुंजत्रयं चासौ न करोत्येव, ततश्च औपशमिक सम्यक्त्वाच्च्युतो अवश्यं मिथ्यात्वमेव गच्छतीति, इह तत्वं पुनस्तत्त्वज्ञा विदंति अथ कल्प भाग्योक्तः पुंजत्रयसंक्रमविधिर्दश्यते - मिथ्यात्वदलिकात् पुद्गलानाकृष्य सम्यग्दृष्टिः प्रवर्द्धमानपरिणामः सन् सम्यक्त्वे मिश्रे च संक्रमयति. मिश्र द्गलांश्च सम्यग्दृष्टिः सम्यक्त्वे, मिध्यादृष्टिश्च मिथ्यात्वे संक्रमयति. सम्यक्त्वपुद्गलांस्तु मिथ्यादृष्टिमिध्यात्व, एव संक्रमयति, न तु मिश्र इति अपि च मिथ्यात्वेऽक्षीणे सम्यरहष्टयो नियमात्त्रिपुंजिन, मिथ्यात्वे क्षीणे द्विपुंजिनः मिश्र क्षीणे एकपुंजिनः, सम्यक्त्वे तु क्षीणे क्षपका भवंतीति. अन्यच कार्मग्रंथिकाभिप्रायेण प्रथमं संप्राप्तसम्यक्त्वो जीवः सम्यक्त्वपरित्यागान्मिथ्यात्वं गतः सन् पुनरपि सर्वा उत्कृष्टस्थितीः कर्मप्रकृतीबंध्नाति, सैद्धांतिकाभिप्रायस्तु भिन्नग्रंथेः सम्यक्त्विनो मिथ्यात्वं गतस्यापि उत्कृष्टः स्थितिबंधो न स्यादेवेति अत्र सम्यक्त्वविचारे बहुतरं चार्चिक्यमस्ति तद् ग्रन्थगौरव भयादिहा
For Private & Personal Use Only
प्रथमः प्रकाशे
सम्यक्त्व
स्वरूपं
112 11
Www.jainelibrary.org