SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ जिनलाभसूरि विरचिते आत्म प्रबोधग्रन्थे ॥२१९॥ Jain Education Inte मासं षट्पर्वसु चतुर्धा पोषधं कुर्वतश्चतुर्थी ४ । पंच मासान् यावत् स्नानं वर्जयतो दिवसे प्रकाशदेशे भोजनं कुर्वतो, रात्रौ च सर्वथा भोजनं त्यजतः, परिधानकच्छामबनतो, दिवसे ब्रह्मचारिणो, रात्रौ तु अपर्वतिथिषु स्त्रीणां तद्भोगानां वा प्रमाणं विद्धतः, पर्वतिथिषु च रात्रौ चतुष्पथादौ कायोत्सर्गं कुर्वतः श्राद्धस्य पंचमी प्रतिमा भवति । इह रात्रिभोजन वर्जना देतत्सूचितं श्रावकेण किल केशवादिवत् कदाऽपि रात्रिभोजनं न करणीयमेव परं यः कोऽपि श्रावकस्तन्नियमं कर्त्तुं न शक्नोति तेनापि पंचमप्रतिमात अरभ्यावश्यं रात्रिभोजनत्यागो विधेय इति । केशवतांतस्तु वक्ष्यते ५ । तथा षण्मासान् यावत् दिवा रात्रौ च सर्वथा ब्रह्मचर्य दधतः षष्ठी प्रतिमा ६ । सप्त मासान् यावत् अचित्तमशनादि भुंजानस्य सप्तमी ७ । अष्टौ मासान् यावत् स्वयमारंभं त्यजतोऽष्टमी ८ । नवमासान् यावत् परेणाप्यारंभयतो नवमी ९ । दश मासान् यावत् क्षुरमुंडस्य मस्तके शिखां धारयतो वा उद्दिष्टाहारं त्यजतो दशमी १० । एकादश मासान् यावत् क्षुरमुंडस्य लोचेन वा लुप्तकेशस्य गृहीतरजोहरणपात्रादिसाधूपकरणस्य साधुवदेषणीयमशनादि गृह्णतः, अद्यापि स्वजनेषु अव्यवच्छिन्नस्नेहस्य, गोचरकाले च 'प्रतिमां प्रतिपन्नाय श्रावकाय भिक्षां दत्ते 'ति बदत एकादशी प्रतिमा ११ । इदं चोत्कृष्टतः कालमानमुक्त, जघन्यतः पुनरेकादशापि प्रतिमाः प्रत्येकमंतर्मुहूर्त्तादिमाना एव । तच मरणे वा प्रव्रजितत्वे वा संभवति नान्यथेति, इहाग्रेतन्यः सप्त प्रतिमाः क्वापि प्रकारांतरेणाप्युक्ताः संति, तद्विचारस्तु प्रवचनसारोद्धारादेवावगंतव्यः । अत्र प्राक्सूचित| केशववृतांतस्त्वयं- For Private & Personal Use Only द्वितीय प्रका देशविरति स्वरूपं ॥२१९॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy