SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ जिनलाभसूरि विरचिते आत्म प्रबोधग्रन्थे ॥२१९॥ Jain Education Inte मासं षट्पर्वसु चतुर्धा पोषधं कुर्वतश्चतुर्थी ४ । पंच मासान् यावत् स्नानं वर्जयतो दिवसे प्रकाशदेशे भोजनं कुर्वतो, रात्रौ च सर्वथा भोजनं त्यजतः, परिधानकच्छामबनतो, दिवसे ब्रह्मचारिणो, रात्रौ तु अपर्वतिथिषु स्त्रीणां तद्भोगानां वा प्रमाणं विद्धतः, पर्वतिथिषु च रात्रौ चतुष्पथादौ कायोत्सर्गं कुर्वतः श्राद्धस्य पंचमी प्रतिमा भवति । इह रात्रिभोजन वर्जना देतत्सूचितं श्रावकेण किल केशवादिवत् कदाऽपि रात्रिभोजनं न करणीयमेव परं यः कोऽपि श्रावकस्तन्नियमं कर्त्तुं न शक्नोति तेनापि पंचमप्रतिमात अरभ्यावश्यं रात्रिभोजनत्यागो विधेय इति । केशवतांतस्तु वक्ष्यते ५ । तथा षण्मासान् यावत् दिवा रात्रौ च सर्वथा ब्रह्मचर्य दधतः षष्ठी प्रतिमा ६ । सप्त मासान् यावत् अचित्तमशनादि भुंजानस्य सप्तमी ७ । अष्टौ मासान् यावत् स्वयमारंभं त्यजतोऽष्टमी ८ । नवमासान् यावत् परेणाप्यारंभयतो नवमी ९ । दश मासान् यावत् क्षुरमुंडस्य मस्तके शिखां धारयतो वा उद्दिष्टाहारं त्यजतो दशमी १० । एकादश मासान् यावत् क्षुरमुंडस्य लोचेन वा लुप्तकेशस्य गृहीतरजोहरणपात्रादिसाधूपकरणस्य साधुवदेषणीयमशनादि गृह्णतः, अद्यापि स्वजनेषु अव्यवच्छिन्नस्नेहस्य, गोचरकाले च 'प्रतिमां प्रतिपन्नाय श्रावकाय भिक्षां दत्ते 'ति बदत एकादशी प्रतिमा ११ । इदं चोत्कृष्टतः कालमानमुक्त, जघन्यतः पुनरेकादशापि प्रतिमाः प्रत्येकमंतर्मुहूर्त्तादिमाना एव । तच मरणे वा प्रव्रजितत्वे वा संभवति नान्यथेति, इहाग्रेतन्यः सप्त प्रतिमाः क्वापि प्रकारांतरेणाप्युक्ताः संति, तद्विचारस्तु प्रवचनसारोद्धारादेवावगंतव्यः । अत्र प्राक्सूचित| केशववृतांतस्त्वयं- For Private & Personal Use Only द्वितीय प्रका देशविरति स्वरूपं ॥२१९॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy