SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ द्वितीय | प्रकाशे जिवलाभ सरि विरचिते आत्मप्रबोधग्रन्थे ॥२१८॥ 4%A4 | मदशमश्राद्धानामुपसर्गान वभूवुः, शेषाणांतुषण्णामपि उपसर्गा जाताः, नवरं आद्यस्य गौतमेन सह प्रश्नोत्तरं है। समजनि, षष्ठस्य पुनर्देवेन सह धर्मचर्चा बभूव । इति समुदितव्रतद्वादशकोपरि उपासकदशांगानुसारेण लेशतो| दशश्राद्धदृष्टांता दर्शिताः । एतानिशम्यान्यैरपि सम्यग्दृष्टिभिरित्थं द्वादशव्रतपालने तत्परैर्भाव्यं ॥ देशविरवि अथ प्रसंगादेकादशोपासकप्रतिमास्वरूपं दश्यतेदसणवयसामाझ्य, पोसहपडिमा अबंभसञ्चित्ते। आरंभपेसउद्दिष्ट, बजए समणभूए य ।। ७४ ॥ ।।२१८॥ व्याख्या--दर्शनं-सम्यक्त्वं १, व्रतानि-अणुव्रतादीनि २, सामायिक ३ पोषधौ ४ प्रसिद्धौ, प्रतिमा च कायोत्सर्गः ५, एतेषु पंचसु विधानरूपेण प्रतिमा अभिग्रहविशेषरूपा बोध्याः। अब्रह्म ६ सचित्त ७ योस्तु त्याग रूपेणेति । तथा आरंभा-स्वयं पापकर्मकरणं ८, प्रेषश्च प्रेषणं परेषां पापकर्मसु व्यापारण ९, उदिष्टं च तमेव श्रावकमुद्दिश्य सचेतनं सदचेतनीकृतं पक्वं वा आहारादि, एतेषां त्रयाणां वर्जकोऽष्टम्यादिप्रतिमाधारकः १०, तथा श्रमणभूत:-साधुतुल्य एकादशप्रतिमाधारकः ११ । इति गाथार्थः॥ भावार्थस्त्वयं-मासमेकं यावत् शंकादिदोषराजाभियोगाद्याकारषट्कवर्जितत्वेन केवलं शुद्धसम्यक्त्वं दधतः प्रथमा प्रतिमा १। द्वौ मासौं यावदतिचाररहितानि निरपवादानि व्रतानि सम्यक्त्वं च सम्यग् दधतो द्वितीया प्रतिमा २। त्रोन्मासान यावत् सम्यक्त्वव्रतोपेतस्य प्रतिदिनमुभयसंध्यं सामायिकं कुर्वतस्तृतीया प्रतिमा ३। एवमग्रेऽपि पूर्वपूर्वप्रतिमाऽनुष्ठानमुत्तरोत्तरप्रतिमासु द्रष्टव्यं,यस्तु विशेषः स उच्यते-चतुरो मासान् यावत् प्रति AAAACARA Jain Education Intera For Private & Personal use only Janww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy