________________
द्वितीय
परि
विरचिते
देशविरति स्वरूप ॥२१७॥
यावद्यथायोग्यं प्रायश्चित्तं प्रतिपद्यस्वेति । ततो भगवान् गौतमः प्रभुवचनं विनयेनांगीकृत्य राजगृहनगाँ महा. जिनलाभ
शतकगृहे जगाम । तत्र च स श्राद्धो गौतमस्वामिनमागच्छतं दृष्ट्वा हृष्टः वंदते स्म । ततो गौतमेन सर्वमपि भग
वदुक्तवचनकदंबकं भगवन्नामग्राहं तदने निवेदितं, तदा महाशतकेन गौतमवाक्यं तथेति प्रतिपद्य तस्य स्थानबात्म
स्थालोचनादि गृहीतं । ततो गौतमस्तत्समीपानिष्क्रम्य स्वामिसमीपं ययौ । ततो महाशतकश्रावकः सम्यक प्रबोषान्थे। श्राद्धधर्म प्रपाल्य तथैव प्रांतेऽरुणावतंसके विमाने देवत्वेनोत्पन्नो महाविदेहे सेत्स्यति । इति महाशतकसंबंधः। ॥२१७॥ अथ नवमश्राद्धसंबंधो यथा-श्रावस्त्यां नगर्यां नंदिनीपिता नाम गाथापतिर्वसति स्म। तस्याश्विनी नाम भार्या,
द्रव्यं गोकुलानि चानंदवदासीत् । द्वादश वातान्यपि तथैव । चतुर्दशवर्षांतिक्रमे च सोऽपि तथैव ज्येष्टपुत्रं कुटुंबे स्थापयित्वा पोषधशालायामागत्य विविधधर्मकृत्यैः स्वात्मानं भावयित्वा एकादश प्रतिमा आराध्य प्रांतेऽरुणगे विमाने उत्पन्नो महाविदेहे सेत्स्यति इति नवमश्राद्धसंबंधः॥९॥ अथ दशमश्राद्धसंबंधो यथा-श्रावस्त्यां नगाँ तेतलीपिता नाम गाधापतिर्वसति स्म । तस्य फाल्गुनी नाम भार्या । तथा ऋद्धिविस्तारस्तु प्राग्वत्, व्रतान्यपि तथैव । ततः सोऽपि ज्येष्ठपुत्राज्ञया पोषधशालायामेकादश प्रतिमा आराध्य प्रांते तथैव सौधर्मे कल्पेऽरुणकीलविमाने चतुःपल्योपमस्थित्या देवत्वेनोत्पन्नो महाविदेहे च सेत्स्यति । इति दशमश्राद्धसंबंधः ॥१०॥ | एतेषां हि दशानामपि श्रावकाणां पंचदशे वत्सरे वर्तमाने गृहव्यापारत्यागाध्यवसायो जातस्तथा सर्वेषां ताविंशति वर्षाणि श्रावक पर्यायी बभूव, तथा सर्वेऽपि सौधर्म कल्पे तुल्यायुष्कतयोत्पन्नाः, तथा एतेषु प्रथमषष्ठनव.
AAAAACHAR
Jain Education Intem
For Private & Personal use only
w
w w.jainelibrary.org