SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ जिनलाभबरि विरचिते आत्म प्रबोधग्रन्थे ॥२१॥ Jain Education Intera निवेद्य तथैव व्रतानि ग्राहयामास । तद्दिनादारभ्य च स शुद्धश्रावको बभूव । अथैकदा गोशालकस्तां वार्तां श्रुत्वा तं सद्दालपुत्रं जिनधर्माच्चालयितुं स्वधर्मे चानयितुमाजी विकसंघपरिवृतस्तन्नगरे आजीविक सभायामागत्य स्वभांडादिकं निक्षिप्य कियद्भिराजीविकैः सह सद्दालपुत्रसमीपमागतः । तदा स श्राद्धस्तमागच्छतं दृष्ट्वा आदरसत्कारादिकमकुर्वाणस्तूष्णीकस्तस्थौ । ततः स गोशालकस्तेनानाद्रियमाणः सन् पीठफलकाद्यर्थं तस्याग्रे श्रीवीरस्वामिनो गुणोत्कीर्त्तनं करोति स्म - भो देवानुप्रिय ! इह महामाहना महागोपा महासार्थवाहा महाधर्मकका महानिर्या मकाः समागता आसन् १' । सद्दालपुत्रेणोक्तं-' भो देवानुप्रिय ! एतादृशाः के १' । गोशालेनोक्तं- ' श्रीमंतः श्रमणा भगवंतो महावीरस्वामिनः' । पुनः श्राद्धेनोक्तं- 'ते कथमेतादृशोपमाधारकाः १' । तदा गोशालेनोचे - "भोः सद्दालपुत्र ! श्रीमहावीरस्वामिनोऽनंतज्ञानादिधारकत्वेन चतुःषष्टिसुरेंद्रः पूजितत्वान्महामाहना उच्यते । तथा भवाटव्यां त्रासं प्राप्नुवतो बहून् जीवान् धर्ममयेन दंडेन सम्यक रक्षतो निर्वाणमहावाटकं च प्रापयंतः संतो महागोपा उच्यते । तथा संसारादव्यामुन्मार्गपतितानां जीवानां मुक्तिपत्तनप्रापकत्वान्महासार्थवाहा उच्यते । तथा सन्मार्गाद्रष्टानां जीवानां बहुभिरर्थहेतुप्रभृतिभिः सन्मार्गमानीय संसारतो निस्तारकत्वान्महाधर्मकथका उच्यते । तथा संसारसमुद्रे निमज्जतां जंतूनां धर्ममय्या नावा निर्वाणतीराभिमुखीकरणान्महानिर्यामका उच्यते | इति । ततः स सद्दालपुत्रो गोशालं प्रत्युवाच - ' भो देवानुप्रिय ! ईदृग् निपुणः ईदृग्नयवादी ईग्विज्ञानवान् भवान् मम धर्माचार्येण वीरस्वामिनां सह विवादं कर्त्तुं समर्थों भवति १' । तेनोक्तं- 'न भवामि ' । श्राद्धेनोक्तं- 'तत्कथं १' । For Private & Personal Use Only द्वितीय प्रकाशे देशविरति खरूपं ॥२१६॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy