________________
जिनलाभ
मरि
द्वितीय प्रकाशे देशविरवि
विरचिते
आत्मप्रबोधान्ये
खरूपं
॥२१५॥
॥२१॥
63555
सर्वथानाद्रियमाणस्तूष्णीकः सन् धर्मध्यानोपगतस्तस्थौ । तदा सा रेवती द्वित्रिवारं पुनरेवमुक्तवत्यपि तेनानाद्रियमाणा स्वस्थानं गता। ततः स श्रावकः क्रमेणैकादशप्रतिमा आराध्य बहुभिस्तपोभिः संशोषितशरीर: सन् आनंदवन्नाड्यस्थिमात्रदेहो जातः । अथैकदा तस्य शुभाध्यवसायेरवधिज्ञानं समुत्पन्न, तेन स पूर्वस्यां दक्षिणस्यां पश्चिमायां च दिशि लवणसमुद्रे एकैकसहस्रयोजनमितं क्षेत्रं जानाति स्म पश्यति स्म च । शेषासु च दिक्षु | यथाऽऽनंदवदसावपि ददर्श । तत एकदा सा रेवती महाशतकं प्रति पुनः प्राग्वदुपसर्ग चकार । तदा स गाथापतिः क्रुद्धः सन् अवधिज्ञानं प्रयुज्य तां प्रत्येवमुवाच- अरे रेवती! अप्रार्थ्यप्रार्थिके! त्वं सप्तदिनमध्येऽलसकव्याधिना पराभूता सती असमाधिना कालं कृत्वा प्रथमनरके लोलुच्चुयनाम्नि नरकावासे चतुरशीतिसहस्रवर्षस्थित्या नारकत्वेनोत्पत्स्यसे'। ततः सा रेवती तद्वचनं श्रुत्वा भीता सत्येवं चिंतयति स्म-' अद्य ममोपरि रुष्टो महाशतकः, अथ कयापि कदर्थनया मां मारयिष्यति' । एवं विचित्य शनैः शनैस्ततः सा प्रत्यपसृत्य स्वगृहमागत्य दु:खिता सती स्थिता।ततः सा रेवती सप्तदिनमध्ये तथैव मृत्वा लोलुच्चुयाख्ये नरकावासे उत्पन्ना। तस्मिन्नवसरे श्रीवीरस्वामी तत्र समवमृता, पर्षद् देशनां श्रुत्वा स्वस्थानं गता। तदा स्वामिना गौतममामंत्र्य महाशतकस्य क्रोधोत्पत्त्यादिस्वरूपं तस्मै निगद्यैवं प्रोक्तं-'भो गौतम! पोषधशालायां चरमसंलेखनया दुर्बलीकृतशरीरस्य |भक्तपानादिप्रत्याख्यायकस्य श्रावकस्य परं प्रति सत्यमप्यप्रीतिकरं वचनं वक्तुंन घटते, तस्मात्त्वं तत्र गत्वा महा. शतकं प्रत्येवं ब्रहि-भो महाशतक! यत्त्वं रेवती प्रति सत्यान्यप्यनिष्टानि वचांसि उक्तवान् तदेतत्स्थानमालोचय,
Jain Education Intema
For Private & Personal use only
w
ww.jainelibrary.org