________________
जिन लाभ
परि
विरचिते आत्म
प्रबोधग्रन्थे
॥ २०९ ॥
Jain Education Interna
भणितं - ' पुत्र ! न कोऽपि पुरुषः, न केनापि तव पुत्रा हताः, एष कोऽपि पुरुषस्तवोपसर्गं करोति स्म । त्वं चेदानीं भग्नव्रतो भग्नपोषधो जातोऽसि, तस्मात्त्वं पुत्र ! एतत्स्थानस्थालोचनादिकं गृहाण' । ततः स चुलनीपिता श्रावको मातुर्वांचं तथेति प्रतिपद्य तत्स्थानस्यालोचनादिकं जग्राह । तदनंतरं चानंदवत्क्रमेणैकादश प्रतिमा आराध्य प्रांते | समाधिना कालं कृत्वा अरुणाभविमाने देवत्वेनोत्पन्नो महाविदेहे च सेत्स्यति । इति चुलनीपितुर्वृत्तांतः ॥ ३ ॥ अथ सुरादेववृत्तांतो यथा-वाराणस्यां नगर्यां सुरादेवो नाम गाथापतिर्वसति स्म । तस्य धन्या नाम भार्यां । तथा कामदेववद् द्रव्यसंपद गोकुलानि चाभवन्, अग्रे व्रतोपसर्गादिस्वरूपं तु सर्वमपि तृतीयश्रावकवद् ज्ञेयं । नवरं पुत्रत्रयहननोपसर्गकरणानंतरं सुरादेवमक्षुभितं विज्ञाय देवेनोक्तं- ' यदि त्वमेतं धर्म न त्यक्ष्यसि तर्ह्यधुनैवाहं तव शरीरे षोडशमहारोगप्रक्षेपं कृत्वा अकाले एव त्वां प्राणवियुक्तं करिष्यामीत्यादि । तथा कोलाहल करणानंतरं भद्रास्थानेऽत्र धन्या भार्या बोध्या । शेषं तथैव यावत्सौधर्मकल्पेऽरुणकांतविमाने देवत्वेनोत्पन्नो विदेहे च सेत्स्यति । इति सुरादेववृत्तांतः ॥ ४ ॥ अथ चुल्लशतकवृत्तांतो यथा - आलंभिकायां नगर्यां चुल्लशतको नाम | गाथापतिर्वसति स्म । तस्य बहुला नाम भार्या । तथा कामदेववद् द्रव्यसंपद् गोकुलानि चाभवन् । अग्रे व्रतादिस्वरूपं तु अत्रापि सर्वे तृतीयश्राद्धवदवसेयं । नवरं तं चुल्लशतकं पुत्राणां कदर्थनयाऽक्षुभितं ज्ञात्वा देवेनोक्तं- ' यदि त्वमेतं धर्मं न त्यक्ष्यसि तर्हि अधुनैवाहं तवाष्टादशकोटिसौवर्णिकानि स्वगृहान्निष्कास्यास्यां नगर्यां त्रिकचतुष्कादिमार्गेषु समताद्विकीर्णयिष्यामि येन त्वमार्त्तरौद्रध्यानोपगतोऽकाले एव मृत्युं प्राप्स्यसीत्यादि ।
For Private & Personal Use Only
द्वितीय प्रकाचे
देशविरति
स्वरूपं
॥ २०९ ॥
www.jainelibrary.org