________________
जिनलाभवरि विरचिते
आत्म
प्रबोधग्रन्थे
॥२०८॥
Jain Education Internati
मासीत् । तथा प्रत्येकं दशदशसहस्र गोनिष्पन्नानि अष्ट गोकुलान्यभवन् । ततस्तेनाप्यानंदादिवद्वीरस्वामिपार्श्वे द्वादशव्रतानि गृहीत्वाऽवसरे ज्येष्ठं पुत्रं कुटुबे स्थापयित्वा स्वयं पोषधशालायां पोषधं कृत्वाऽवस्थितः । तत्र चार्धरात्रसमये एको देवः प्रादुभूय करे खतं गृहीत्वा तं प्रत्येवमुवाच - ' अरे चुलनीपितस्त्वमेतं धर्मे त्यज, नो चेत्तव ज्येष्ठादिपुत्राननेन खङ्गेन हनिष्यामि । एवमुक्तोऽपि स यदा न क्षुभितस्तदाऽतिक्रुद्धः स देवः क्रमेण ज्येष्ठं मध्यमं कनिष्ठं च तत्पुत्रं तत्र समानीय तस्याग्रतो हत्वा तप्तकटाहे प्रक्षिप्य तेषां मांसेन रुधिरेण च तस्य श्राद्धस्य शरीरं सिंचति स्म । तथापि स न क्षुभितस्तदा स देवश्चतुर्थवारं तं श्राद्धं प्रति एवमवादीत् - ' हंहो चुलनीपितस्त्वं यदि मदुक्तं न मन्यसे तर्हि अद्याहं तव मातरं भद्रासार्थवाही मिहानीय तवाग्रतो हत्वा तप्तकटाहे प्रक्षिप्य तस्या मांसेन शोणितेन च स्वच्छरीरसेचनं करिष्यामि, येन त्वं दुःखार्त्तः सन् अकाले एव मृत्युं प्राप्स्यसि । एवमेकवारोक्त्या तमक्षुभितं मत्वा द्वितीयतृतीयधारं पुनरेवमवादीत् । तदा तस्य श्राद्धस्य मनसीत्थं विचारः समुत्पन्न: - ' अहोऽयं कोsपि पुरुषोsनार्योऽनार्यबुद्धिरनाचरणीयानि पापकर्माणि आचरति, यतोऽनेन मम त्रयोऽपि पुत्रास्तादृशकदर्थनया हताः, सांप्रतं पुनर्मम मातरमपि तथैव हंतुमिच्छति, अधाहमेनं पुरुषं चेत्सद्यो गृह्णामि तदूरमिति' विचार्य स शीघ्रमुत्थाय तद्ग्रहणार्थं यावत्करौ प्रसारयति स्म तावत्स देव आकाशे उत्पतितस्तस्य च करयोर्मध्ये स्तंभ आगतस्ततस्तेन श्राद्धेन महता शब्देन कोलाहलः कृतः, तदा भद्रा सार्थवाही तं पुत्रशब्दं निशम्य चुलनीपितुः पार्श्वे आगत्य कोलाहलकारणं पप्रच्छ । ततस्तेनापि स्वयमनुभूतः सर्वोऽपि वृत्तांतो मात्रे निवेदितः, तदा मात्रा
For Private & Personal Use Only
द्वितीय प्रकाशे
देशविरति
स्वरूपं
॥२०८॥
www.jainelibrary.org