SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ जिनलाभवरि विरचिते आत्म प्रबोधग्रन्थे ॥२०८॥ Jain Education Internati मासीत् । तथा प्रत्येकं दशदशसहस्र गोनिष्पन्नानि अष्ट गोकुलान्यभवन् । ततस्तेनाप्यानंदादिवद्वीरस्वामिपार्श्वे द्वादशव्रतानि गृहीत्वाऽवसरे ज्येष्ठं पुत्रं कुटुबे स्थापयित्वा स्वयं पोषधशालायां पोषधं कृत्वाऽवस्थितः । तत्र चार्धरात्रसमये एको देवः प्रादुभूय करे खतं गृहीत्वा तं प्रत्येवमुवाच - ' अरे चुलनीपितस्त्वमेतं धर्मे त्यज, नो चेत्तव ज्येष्ठादिपुत्राननेन खङ्गेन हनिष्यामि । एवमुक्तोऽपि स यदा न क्षुभितस्तदाऽतिक्रुद्धः स देवः क्रमेण ज्येष्ठं मध्यमं कनिष्ठं च तत्पुत्रं तत्र समानीय तस्याग्रतो हत्वा तप्तकटाहे प्रक्षिप्य तेषां मांसेन रुधिरेण च तस्य श्राद्धस्य शरीरं सिंचति स्म । तथापि स न क्षुभितस्तदा स देवश्चतुर्थवारं तं श्राद्धं प्रति एवमवादीत् - ' हंहो चुलनीपितस्त्वं यदि मदुक्तं न मन्यसे तर्हि अद्याहं तव मातरं भद्रासार्थवाही मिहानीय तवाग्रतो हत्वा तप्तकटाहे प्रक्षिप्य तस्या मांसेन शोणितेन च स्वच्छरीरसेचनं करिष्यामि, येन त्वं दुःखार्त्तः सन् अकाले एव मृत्युं प्राप्स्यसि । एवमेकवारोक्त्या तमक्षुभितं मत्वा द्वितीयतृतीयधारं पुनरेवमवादीत् । तदा तस्य श्राद्धस्य मनसीत्थं विचारः समुत्पन्न: - ' अहोऽयं कोsपि पुरुषोsनार्योऽनार्यबुद्धिरनाचरणीयानि पापकर्माणि आचरति, यतोऽनेन मम त्रयोऽपि पुत्रास्तादृशकदर्थनया हताः, सांप्रतं पुनर्मम मातरमपि तथैव हंतुमिच्छति, अधाहमेनं पुरुषं चेत्सद्यो गृह्णामि तदूरमिति' विचार्य स शीघ्रमुत्थाय तद्ग्रहणार्थं यावत्करौ प्रसारयति स्म तावत्स देव आकाशे उत्पतितस्तस्य च करयोर्मध्ये स्तंभ आगतस्ततस्तेन श्राद्धेन महता शब्देन कोलाहलः कृतः, तदा भद्रा सार्थवाही तं पुत्रशब्दं निशम्य चुलनीपितुः पार्श्वे आगत्य कोलाहलकारणं पप्रच्छ । ततस्तेनापि स्वयमनुभूतः सर्वोऽपि वृत्तांतो मात्रे निवेदितः, तदा मात्रा For Private & Personal Use Only द्वितीय प्रकाशे देशविरति स्वरूपं ॥२०८॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy