________________
द्वितीय प्रकाशे
देशविरति
खरूप ॥२०७॥
परं त्वत्परीक्षां कुर्वता मया याहशींद्रेणोक्ता तादृश्येव तव शक्तिदृष्टा, अथाहं भवंतं क्षमयामि, मत्कृतापराधं जिनलाम
जाभवानपि क्षमतां, अतः परमेतदकार्य न करिष्ये । इत्युक्त्वा स देवः कामदेवस्या चरणी नत्वा बद्धांजलिः सन् सरि । विरचिते
पुनः पुनः स्वापराध क्षमयित्वा स्वस्थानं जगाम । ततः स कामदेवो निरुपसर्गमिति, कृत्वा कायोत्सर्ग पारयति आत्म
स्म । तस्मिन्नवसरे श्रीवीरस्वामी तत्र समवमृतः, तद्वार्ता श्रुत्वा स चिंतयामास-'अहं श्रीवीरस्वामिनं वंदित्वा प्रबोषान्चे पश्चात्पोषधं चेत्पारयामि तदा वरं'। इति विचिंत्य बहुजनपरिवृतः स्वामिसमीपं गत्वा वंदित्वोचितस्थाने उपवि. ॥२०७॥
ष्टस्तदा स्वामिना स्वयमेव कामदेवमामंध्य रात्रिसमुत्पन्नं सर्वमप्युपसर्गादिव्यतिकरं कथयित्वा प्रोक्तं-'भोः का.
मदेव ! अयमर्थः सत्यः । तेनोक्तं-'स्वामिन्नित्यमेव । ततः स्वामी बहुन्निग्रंथान बहीनिग्रंथीश्चामंत्र्यैवमवादीत्PI'भो आर्याः! एते गृहस्थाः श्रमणोपासका गृहमध्ये वसंतो यद्येवं दिव्यमानुषायुपसर्गान् सम्यक सहते, ततो भवद्विस्तु द्वादशांगीमधीयानैर्विशेषत एतान् सोढुं समर्थैर्भाव्यं तदा सर्वेऽपि निर्ग्रथा निग्रंथ्यश्च स्वाम्युक्तं वचनं वि. नयेन तथेति प्रतिशृण्वंति स्म । ततः स कामदेवो हृष्टः सन् स्वामिन वंदित्वा स्वस्थानमायातः, तदनंतरमानंदवक्रमेण एकादशोपासकप्रतिमाः सम्यग्विधिना आराध्य विंशतिवर्षाणि श्रावकपर्यायं प्रपाल्य मासिक्या संलेखनया कालं कृत्वा सौधर्म कल्पेऽरुणाभविमाने देवत्वेनोत्पन्नो महाविदेहे च सेत्स्यति । इति कामदेववृत्तांतः ॥२॥
अथ चुलनीपितुर्वृत्तांतो यथा-वाराणस्यां नगर्या चुलनीपिता नाम गाथापतिर्वसति स्म। तस्य सामा भार्या । तथा चतुर्विंशतिकोटिसौवर्णिकानि द्रव्यं । तत्र चाष्टाष्टकोटिप्रमितं द्रव्यं प्रागुक्तरीत्या तस्यापि निधानादिप्रयुक्त
BEAUCARSHA
For Private & Personal Use Only
HTww.jainelibrary.org
Jain Education Intel