SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ M जिनलाभ द्वितीय सरि ARO Re विरचिते बात्मप्रबोपान्थे ॥२०५॥ देवविरति खरूपं ॥२०५॥ तथाऽष्टादशकोटिसौवर्णिकानि द्रव्यमासीत् । तत्र षट् हिरण्यकोटयो निधाने प्रयुक्ता आसन्, एतावत्य एव वृद्धिप्रयुक्ता आसन्, एतावत्य एव पुनर्विस्तारे प्रयुक्ता आसन् । तथा प्रत्येक दशदशसहस्रगोनिष्पन्नानि षट् गोकुलान्यभवन् । एकदा तन्नगरपाचवर्तिनि पूर्णभद्रचैत्ये श्रीवीरस्वामी समवसृतः, तदा आनंदश्रावकवदनेनापि द्वादशव्रतानि गृहीतानि।ततः क्रमेणायमपि तद्वत् स्वज्येष्टपुत्रं कुटुंबे स्थापयित्वा स्वयं पोषधशालायामागत्य पोषधं कृत्वाऽवस्थितः । ततोऽर्धरात्रसमये तस्य कामदेवस्य समीपे एको मायी मिथ्यात्वी देवः प्रादुर्भूयेकं महद्भयानकभवाच्यविकरालस्वरूपं पिशाचं विकुळ हस्ते तीक्ष्णधारोल्लसितं खङ्गं समादाय कामदेवं प्रत्येवमवादीत्-'हहो! 8 कामदेव ! श्रमणोपासक ! अप्रार्थ्यप्रार्थक ! धीहीवर्जित ! धर्मपुण्यस्वर्गमोक्षवांछक ! एतानि शीलादिव्रतानि पोषधोपवासादीनि च धर्मकृत्यानि शीघं परित्यज, नो चेदद्याहमेतेन तीक्ष्णखङ्गेन त्वां खंडशः करिष्यामि, येन त्वं दुःखातः सन् अकाले एव मृत्यु प्राप्स्यसि । ततः स कामदेवस्तेन पिशाचरूपेणैवमुक्तोऽप्यभीकोऽक्षुभितोऽचलितस्तूष्णीको धर्मध्यानोपगतः सन् तस्थौ । ततः स देवस्तं श्राद्धं तादृग् निश्चलं विज्ञाय द्वितीयतृतीयवारं पुनरेव| मेवोवाच, परं स मनागपि न क्षुभितः । तदा समुद्भूतात्यंतकोपः स देवो ललाटे भृकुटिं कृत्वा खड्ड्रेन कामदेवं खंडशः करोति स्म । तथापि कामदेवस्तां महावेदनां सम्यक् महमानो धर्मे निश्चलचित्तः सन् तस्थौ । ततः स देवः पिशाचरूपेण तं चालयितुसशक्नुवन् ग्वेदात् शनैः शनैः पश्चादपसरन् पोषधशालाया बहिर्निर्गत्य तत्पिशाचरूपं परित्यज्यैकं महत्प्रचंडशंडादंडमितस्तत उल्लालयंत मेघमिव गुलगुलायमान भीमाकारं हस्तिरूपं विकुर्व्य ONOCESCENG+915 -CI Jain Education Internal For Private & Personal use only Diww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy