________________
जिनलाभ
विरचिते
| द्वितीय
प्रकाशे देशविरति स्वरूप ॥२०४॥
पंचशतयोजनप्रमितं क्षेत्रं जानामि पश्यामि च, उत्तरस्यां दिशि हिमवद्वर्षधरपर्वतं यावजानामि पश्यामि च,
ऊर्ध्व सौधर्मकल्पं यावत् अधस्तु रत्नप्रभापृथिव्या लोलच्चुयं नाम नरकावासं यावजानामि पश्यामि च ।' तत सरि
आनंदं प्रति गौतमः मोचे-'भो आनंद ! गृहस्थस्यावधिज्ञानमुत्पद्यते, परं नैतावन्महत्तरं, तस्मात्त्वमेतस्य स्थानआत्म-*
स्यालोचननिंदनादिकं कुरु ।' तत आनंदो गौतमं प्रत्येवमवादीत-'स्वामिन् ! जिनवचने सत्यार्थानामालोचनादि प्रबोधनन्थे | स्यात् ।' गौतमेनोक्तं-'न भवति। तदा आनंदेनोक्तं यद्येवं तर्हि स्वामिन् ! भवतैव एतत्स्थानस्यालोचनादि ॥२०४॥ कार्य ।' ततो भगवान् गौतम आनंदेनैवमुक्तः सन् शंकितः सद्य आनंदसमीपात्प्रतिनिष्क्रम्य दूतिपलाशचैत्ये
श्रीवीरस्वामिसमीपमागत्य गमनागमनप्रतिक्रमणादिपूर्वकं स्वामिनं नत्वा सर्वमपि तद् वृत्तांत निवेद्येवमवादीत'भगवन् ! तत्स्थानमानंदेनालोच्य किं वा मया ?' भगवानुवाच-'हे गौतम ! त्वमेवैतत्स्थानमालोचय । आनंद प्रति एतमर्थ क्षमयस्व ।' ततो भगवान् गौतमो भगवद्वचनं विनयेन तथेति प्रतिपद्य स्वयं तत्स्थानस्यालोचनादि गृहीत्वा आनंदश्रावकं प्रति तमर्थ क्षमयामास । ततः स आनंदश्रावको बहुभिः शीलवतादिधर्मकर्तव्यैरात्मानं भावयित्वा विंशतिवर्षाणि यावत् श्रावकपर्यायं प्रपाल्य प्रांते मासिकी संलेखनां विधाय समाधिना कालं कृत्वा सौधमें कल्पेऽरुणाभविमाने चतुःपल्योपमस्थित्या देवत्वेनोत्पन्ना, ततश्युत्वा महाविदेहे सेत्स्यति । इति | आनंदश्राद्धवृत्तांतः॥१॥
अथ कामदेववृत्तांतो यथा-चंपायां नगयाँ कामदेवनामा गाथापतिवसति स्म । तस्य भद्रानाम्नी भार्या ।
A%ESSENCE
4
Jain Education Intema
For Private & Personal use only
W
ww.jainelibrary.org