________________
जिनलाभसूरि विरचिते
आत्म
प्रबोधग्रन्थे ॥ २००॥
Jain Education Intern
तत्रान्नपानानि १ वस्त्राणि २ अलंकारांश्च ३ दापयंतीत्यलं प्रसंगेन । इति भावितं सप्रसंगं चतुर्थं शिक्षाव्रतं ॥१२॥ तद्भावनेन च भावितानि द्वादशापि व्रतानि । अथ निगमनं
इत्थं व्रतद्वादशकं दधाति, गृही प्रमोदेन प्रतिव्रतं हि । पंचातिचारान् परिवर्जयंश्च, ध्रुवं यथाशक्त्यपि भंगषट्के ॥ ७२ ॥
व्याख्या-गृही गृहस्थ इत्थमनंतरोक्तप्रकारेण व्रतद्वादशकं प्रमोदेन हर्षेण भंगषट्केऽपि षट्स्वपि भंगकेषु यथाशक्ति दधाति, स्वनिर्वाहं विचित्य एकं द्वे त्रीणि वा समस्तानि वा व्रतानि प्रतिपद्यते इत्यर्थः । किं कुर्वन् ? प्रतिव्रतं ध्रुवं निश्चितं पंच पंचातिचारान् परिवर्जयन्, अतिचारास्तु विस्तरभयादत्र नोपदर्शिताः संति, ते च ग्रंथांतरेभ्यः सुधीभिः स्वयमभ्यूया इति । इहातिचाराणां पंचत्वसंख्या तु बाहुल्यमाश्रित्य प्रोक्ताऽस्ति, तेन भोगोपभोगवते विंशतिरतिचारा अवगंतव्याः । अत्र प्राक् सूचिताः षड्भंगकास्त्वेवं- एकविधमेकविधेन, यथा हिंसादिकं न करोति न कारयति वा मनसा वाचा कायेन वा १ । एकविधं द्विविधेन, यथा न करोति न कारयति वा मनोवाग्भ्यां मनःकायाभ्यां वाक्का
वा २ | एकविधं त्रिविधेन, यथा न करोति न कारयति वा मनोवाक्कायैः ३ । द्विविधमेकविधेन, यथा न करोति न कारयति मनसा वाचा कायेन वा ४ । द्विविधं द्विविधेन, यथा न करोति न कारयति मनोवाग्भ्यां मनः कायाम्यवाक्कायाभ्यां वा ५ । द्विविधं त्रिविधेन, यथा न करोति न कारयति मनोवाक्कायैः ६ । इत्थमेकविंशति भंगकयुक्ता षड्भंगीय, श्रावकाणां प्रायोऽनुमतिनिषेधो नास्तीति तद्भगका अपि न दर्शिताः । अत्र द्वादश व्रतान्याश्रित्य भंग
For Private & Personal Use Only
द्वितीय
प्रकाश देशविरति
स्वरूपं
| ॥ २०० ॥
www.jainelibrary.org