________________
आत्मप्रबोधग्रन्थे
प्रथमः प्रकाशे सम्यक्त्व स्वरूपं
भवति, तस्याल्पत्वादस्थिरत्वाच, यथा कोऽपि जनों विशिष्टाभीष्टप्रतिपादनसमर्थ कल्पवृक्षं प्राप्य रूक्षाशन प्रार्थको न भवति तद्वदिति, तथा ये प्राणिन आत्मज्ञाने निरताः सन्ति ते नरकादिदुःखं कदापि न लभन्ते, यथा सुवहमार्गानुगामी चक्षुष्मान् पुमान् कपपातं न प्राप्नोति तद्वत, पुनर्येनात्मयोधः प्राप्तस्तस्य बाह्यवस्तुसंसर्गेच्छा न जायते, यथा लब्धामृतस्वादस्य पुन्सःक्षारोदकपानरुचिर्न भवति तद्वदिति.
. अथ यस्यात्मयोधो न जातः, स प्राणी मनुष्यदेहत्वात् शंगपुच्छाद्ययक्तोऽपि पशरेव बोध्या. आहारनिद्राभयमैथुनयुक्तत्वेन पशुना समानधर्मत्वात् । तथा येन प्राणिना वस्तुगत्या आत्मा न ज्ञातस्तस्य सिद्धिगतिदूरे वत्तते; पुनस्तस्य परमात्मसम्पदोऽनुपलक्षकत्वात् . संसारिकधनधान्यादिऋद्धिरेवौत्सुक्यकारणमस्ति. | पुनस्तदाशानदी सदैवापूर्णा तिष्ठति. तथा पुनर्यावत्प्राणिनामात्मबोधो न जातस्तावद्भवसमुद्रो दुस्तरोऽस्ति. तावदेव हि मोहमहाभटो दुर्जयो विद्यते. तावदेव च कषाया अतिविषमाः सन्तीत्यनः सर्वोत्तम आत्मबोध इति स्थितं. अथ कारणं विना कार्योत्पत्ति भवतीति न्यायादात्मबोधप्रादुर्भावे सदभृतं किमपि कारणं वक्तव्यं, तच्च वस्तुतः सम्यक्त्वमेव सम्भवति. नान्यत्, सम्यक्त्वमन्तरेणागमे तस्योत्पत्तरश्रुतत्वात् , ततश्च सिद्धः मम्यक्त्वमूलक आत्मबोध इति. अथ सम्यक्त्वस्वरूपप्रतिपादनाय तावत्तदुत्पत्तिरीतिरभिधीयते-कश्चिदनादिमिथ्यादृष्टिीवो मिथ्यात्वात्ययमनन्तान् पुद्गलपरावान् यावदस्मिन्नपारसंसारगहने भ्रान्त्वा भव्यत्वपरिपाकवशतो गिरिसरिद्वारिवेगोद्रद्यमानपाषाणघोलनाकल्पेन कथमप्यनाभोगनिवर्तितयथाप्रवृसिकरणेन परि
Jain Education International
For Private & Personal use only
www.jainelibrary.org