SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशे सम्यक्त्व स्वरूपं ॥४॥ 18 याह्यदृष्टितया बहिरात्मा इत्युच्यते. १ अथ यस्तत्वश्रद्धानसमन्वितः सन् कर्मबंधनिबंधनादिस्वरूपं सम्यम् आत्म दि जानाति, यतोऽयं जीवोऽस्मिन् संसारे मिथ्यात्वाविरतिकषाययोगैः कर्मबंधहेतुभिरनुसमयं कर्माणि बध्नाति. प्रबोधग्रन्थे | तानि च यदा उदयमाच्छंति. तदासौ स्वयमेव भुंक्त न कोऽप्यन्यो जनः सहायदायीत्यादि, तथा किंचिद्व्या॥४॥ |दिवस्तुनि गते सति एवं चिंतयति, ममानेन परवस्तुना सह संबंधो नष्टः, मदीयं द्रव्यं तु आत्मप्रदेशसमवेतं ज्ञानादिलक्षणं, तत्तु कुत्रापि न गच्छतीति. तथा किंचिद्व्यादिवस्तुलाभे सति एवं जानाति, ममायं पौद्गलि कवस्तुनः संबंधो जातः, एतस्योपरिकः प्रमोद इति, पुनर्वेदनीयकर्मोदयात्कष्टादिप्राप्तौ सत्यां समभावं दधाति, आत्मानं च परभावेभ्यो भिन्नं मत्वा तेषां त्यजनोपायं करोति, चेतसि पुनः परमात्मानं ध्यायति, आवश्यकादिधर्मकृत्येषु विशेषत उद्यमवान् भवति, स चतुर्थादिद्वादशपर्यंतगुणस्थानतिजीवो अंतर्दृष्टितया अंतरात्मा इत्युच्यते. ॥२॥ अथ पुनर्यः शुद्धात्मस्वभावप्रतिबंधकान् कर्मशत्रुन् हत्वा निरुपमोत्तमकेवलज्ञानादिस्वसंपदं प्राप्य करतलामलकवत् समस्तवस्तुस्तोम निःशेषेण जानाति, पश्यति च, परमानंदसंदोहसंपन्नश्च भवति, स त्रयोदशचतुर्दशगुणस्थानवर्तिजीवः सिद्धात्मा च शुद्धस्वरूपत्वेन परमात्मा इत्युच्यते ॥३॥ बोधनं वस्तुनो | यथास्थितस्वरूपेण ज्ञानं बोधः, आत्मनो अनंतरोक्तलक्षणस्य चेतनस्य तदभिन्नमम्यक्त्वादिधर्मस्य च बोधः आत्मबोधः, एतत्प्रतिपादको ग्रंथोऽप्युपचारादात्मबोध इत्युच्यते, इत्यात्मबोधशब्दार्थः, अथात्मबोधस्य माहात्म्यं वय॑ते. यस्य प्राणिन आत्मबोधो जातः स प्राणी परमानंदमनत्वातः सांसारिकसूखाभिलाषी कदापिन Jain Education inte For Private & Personal use only H ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy