SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ आत्म प्रबोधग्रन्थे GANAGARRAGE वादि-दसणभट्ठो भठ्ठो । दसणभस्स नथि निव्वाणं ॥ सिझंति चरणरहिया । दसणरहिया न सिझंति प्रथमः ॥ १ ॥ चरणरहियत्ति द्रव्यचारित्ररहिता इत्यर्थः । तथा पुनर्ये जीवा अनादिकालाश्रितसूक्ष्मभावपरित्यागेन टू प्रकाशे बादरभावं चेदागच्छंति. तर्हि अवश्यमेव सिद्धचंति, परं सकलसंस्कारकारकाविषयीभूतखन्यंतर्गतसंस्कारयो- सम्यक्त्व | ग्यपाषाणवत् सूक्ष्मभावं परित्यज्य कदापि अव्यवहारराशिखनितो बहिन गताः, नागच्छंति, नागमिष्यति च स्वरूपं ते जातिभव्या इत्यभिधीयंते. इमे हि कथनमात्रे गैव भव्याः, न तु सिद्धसाधकत्वेनेति भावः यदुक्तमागमेसामग्गिअभावाओ । ववहारियरासिअप्पवेसाओ ॥ भव्वावि ते अनंता । जे सिद्धिसुहं न पावंतीत्ति ॥ १॥ तत्र अभव्या जातिभव्याश्च विशुद्धश्रद्धानविकलत्वेन नेहाधिकारिणस्तदावशिष्टा भव्या एव, ते पुनर्द्विविधाः | दूरभव्या आसन्नभव्याश्च, तत्रार्धपुद्गलपरावर्तादधिकसंसारवर्तिनोऽग्रे जीवास्ते दूरभव्या इत्युच्यते. तेषां च प्रबलतरमिथ्यात्वोदयेन कियत्कालं सम्यग्दर्शनादिप्राप्तेरभावादस्मिन्नपारसंसारकांतारे चिरं पर्यटतामात्मबोध| सद्धर्ममार्गो दुर्लभ एव, ये तु किंचिदूनार्द्धपुद्गलपरातमध्यवर्तिनो जीवास्ते आसन्नभव्या उच्यते. तेषां च | लघुकर्मत्वेन तत्वश्रद्धानं सुलभमतस्ते आसन्नभव्या एवात्राधिकारिण इति स्थितं, अथासन्नभव्योपकाराय * किंचिदात्मबोधस्वरूपं निरूप्यते. तत्र अतति सातत्येन गच्छति तांस्तान् भावानित्यात्मा. स च त्रिविधः, बहिरात्मा, अंतरात्मा परमात्मा च. तत्र यो मिथ्यात्वोदयवशतस्तनु धनपरिवारमंदिरनगरदेशमित्रशात्रवादीष्टानिष्टवस्तुषु रागद्वेषबुद्धिं दधाति, पुनः सर्वाण्यप्यसारवस्तूनि सारतया जानाति स प्रथमगुणस्थानतिजीवो HTww.jainelibrary.org Jain Education inte ! For Private & Personal Use Only
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy