SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ जिनलाभ वरि विरचिते आत्म प्रबोधग्रन्थे ॥१८३॥ Jain Education Interna किस्तु राजादिरकृत सामायिक एव साधुपार्श्वमागत्य ततः सामायिकं स्वीकरोति । अन्यथा तु कृतसामायिकस्य तस्यानुगच्छद्भिर्हस्त्यश्वयोधादिभिरधिकरणं स्यादित्यलं प्रपंचनेन । विस्तारार्थिना तु आवश्यकचूर्णिर्विलोकनीया । अथ सामायिकस्थितस्य कृत्यं दर्श्यते- सामायिकस्थः प्रवरागमार्थ, पृच्छेन्महात्मा चरितं स्मरेच्च । आलस्य निद्राविकथादिदोषान्, विवर्जयेत् शुद्धमना दयालुः ॥ स्पष्टं, नवरं आलस्यादिदोषास्त्वमी - आलस्य १ निद्रा २ पल्लंठिका ३ अस्थिरासन ४ दृष्टिपरिवृत्ति ५ कार्यातरप्रवृत्ति६ भित्याद्युपष्टंभा ७ त्यंगोपांगगोपन ८ देहमलोत्तारणां ९ गुल्यादिमोटन १० विश्रामणा ११ कंडूयनानि १२ द्वादश कायदोषाः । तथा कुवचना १ विमृश्यजल्पन २ प्रतिघातवचन ३ यथाच्छंद जल्पन ४ संस्तववचन ५ कलह ६ विकथो ७ पहासवचन ८ त्वरितवचन ९ गमनागमनकथनानि १० दशैते वचनदोषाः । तथा अविवेक १ यशःकीभिलाष २ लाभार्थिता ३ ऽहंकार ४ भय ५ निदानार्थिता ६ संशय ७ रोषा ८ ऽविनया ९भक्तयो १० दशैते मनोदोषाः । एते सर्वेऽपि द्वात्रिंशद्दोषाः सामायिके वर्ज्याः । किं च गृही सस्थावरजंतुराशिषु, सदैव तप्ताऽऽपसगोलकोपमः । सामायिका स्थित एष निश्चितं मुहूर्त्तमानं भवतीह तत्सखः ।। ५९ ।। व्याख्या - इहास्मिन् संसारे गृही त्रसेषु स्थावरेषु च जीवसमूहेषु सदैव संतापकत्वात्तप्तलोहगोल कतुल्यो वर्त्तते । सामायिकेऽवस्थितः पुनरेष गृहस्थो मुहुर्त्तमात्रं घटिकाद्वयं यावत् निश्चितं तेषां जीवानां सखा मित्रं भवति, For Private & Personal Use Only द्वितीय प्रकाशे देशविरचि खरूपं ॥१८३॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy