SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ जिनलाभ वरि विरचिते आत्म प्रबोधग्रन्थे ॥१८३॥ Jain Education Interna किस्तु राजादिरकृत सामायिक एव साधुपार्श्वमागत्य ततः सामायिकं स्वीकरोति । अन्यथा तु कृतसामायिकस्य तस्यानुगच्छद्भिर्हस्त्यश्वयोधादिभिरधिकरणं स्यादित्यलं प्रपंचनेन । विस्तारार्थिना तु आवश्यकचूर्णिर्विलोकनीया । अथ सामायिकस्थितस्य कृत्यं दर्श्यते- सामायिकस्थः प्रवरागमार्थ, पृच्छेन्महात्मा चरितं स्मरेच्च । आलस्य निद्राविकथादिदोषान्, विवर्जयेत् शुद्धमना दयालुः ॥ स्पष्टं, नवरं आलस्यादिदोषास्त्वमी - आलस्य १ निद्रा २ पल्लंठिका ३ अस्थिरासन ४ दृष्टिपरिवृत्ति ५ कार्यातरप्रवृत्ति६ भित्याद्युपष्टंभा ७ त्यंगोपांगगोपन ८ देहमलोत्तारणां ९ गुल्यादिमोटन १० विश्रामणा ११ कंडूयनानि १२ द्वादश कायदोषाः । तथा कुवचना १ विमृश्यजल्पन २ प्रतिघातवचन ३ यथाच्छंद जल्पन ४ संस्तववचन ५ कलह ६ विकथो ७ पहासवचन ८ त्वरितवचन ९ गमनागमनकथनानि १० दशैते वचनदोषाः । तथा अविवेक १ यशःकीभिलाष २ लाभार्थिता ३ ऽहंकार ४ भय ५ निदानार्थिता ६ संशय ७ रोषा ८ ऽविनया ९भक्तयो १० दशैते मनोदोषाः । एते सर्वेऽपि द्वात्रिंशद्दोषाः सामायिके वर्ज्याः । किं च गृही सस्थावरजंतुराशिषु, सदैव तप्ताऽऽपसगोलकोपमः । सामायिका स्थित एष निश्चितं मुहूर्त्तमानं भवतीह तत्सखः ।। ५९ ।। व्याख्या - इहास्मिन् संसारे गृही त्रसेषु स्थावरेषु च जीवसमूहेषु सदैव संतापकत्वात्तप्तलोहगोल कतुल्यो वर्त्तते । सामायिकेऽवस्थितः पुनरेष गृहस्थो मुहुर्त्तमात्रं घटिकाद्वयं यावत् निश्चितं तेषां जीवानां सखा मित्रं भवति, For Private & Personal Use Only द्वितीय प्रकाशे देशविरचि खरूपं ॥१८३॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy