SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ + विकाम विरचिते बारम A प्रकावे देशविरवि ॥१७८॥ ॥१७८॥ स्पष्टः । इह न हि सर्वेषामप्यनर्थदंडभेदानां दृष्टांता वक्तुं शक्यते, ततश्शुल्हकोपरि चंद्रोदयाप्रदानलक्षणस्य 8 प्रमादाचरितस्यान्वयव्यतिरेकाभ्यां दृष्टान्त उच्यते चंदोदयदाणाओ, जाया मिगसुंदरी सया सुहिया । तज्जालणाओ कही. तन्नाहो परभवे जाओ ॥ ५५ ॥ व्याख्या-चुल्होपरि चंद्रोदस्य दानान्मृगसुंदरी नाम श्रेष्ठिकन्या सदा सुखिनी जाता । तेषां चंद्रोदयानां ज्वालनाच तस्या मृगसुंदर्या नाथो भर्ता परभवे कुष्ठी जातः। उपलक्षणादन्येऽपि केचित्तत्संबंधिजनाश्चुल्हकोपरि चंद्रोदयाप्रदानादिनाऽकस्मान्मृत्युरूपं कष्टं प्राप्ताः, इति गाथार्थः, भावार्थस्तु कथानकगम्यस्तच्चैवं__श्रीपुरे नगरे श्रीषेणो राजा,तस्य देवराजनामा पुत्रः, स च यौवने प्राक्तनदुष्कर्मोदयवशात् कुष्ठी जातस्ततः, स सप्त वर्षाणि यावद्विविधप्रतिकारविधानेऽपि नीरोगत्वमप्राप्तः सन् वैद्यैस्त्यक्तस्तदा तडाखदुःखितो राजा 'यो | मत्पुत्रं नीरोगं करोति, तस्मै अर्द्धराज्यं ददामीति' पुरे पटहमवादयत् । तत्र चैको यशोदत्तनामा महेभ्यः श्रेष्ठी वसति स्म । तस्य शीलादिसर्वगुणालंकृता लक्ष्मीवती नाम कन्यका आसीत् । तया पटहं निवार्य प्रोक्तं-'अहं राजपुत्रं नीरुजं करिष्यामीति'। ततो राज्ञाऽत्यादरेणाहता सा पित्रादिसहिता सद्यो नृपमंदिरं गत्वा शीलप्रभावात्स्व. हस्तस्पर्शेन तस्य राजकुमारस्य कुष्ठं स्फेटयामास । तदा हृष्टो राजा खप्रतिज्ञापालनाय तां कन्यां महतोत्सवेन निजपुत्राय परिणायितवान् । स्वयं च पुत्रं राज्ये न्यस्य गुरुसमीपे दीक्षां गृहीतवान् । ततस्तो जायापती सुखेन राज्यं पालयामासतुः। अथैकदा तत्र ज्ञानिन आचार्याः समेताः। राजा राज्ञी च सपरिकरी तद्वंदनाथ गतौ । गुरु ALLACKASHANCHAR AA%E Jain Education Intel For Private & Personal use only Alilwww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy