________________
बिनलाम
परि विरचिते
आत्मप्रपोषान्थे ॥१७६॥
द्विताव
प्रकारे देशविर
खरूप ॥१७६॥
TRENORRH
प्रमाणमत्र व्रते विधेयं, ततः कर्मत इदं व्रतं न स्यात्, कर्मशब्दस्य क्रियावाचित्वात् क्रियायाश्च भोगोपभोगत्वासंभवादिति चेत्सत्यं, परं कर्मणो वाणिज्यादे गोपभोगकारणत्वात् , कारणे च कार्योपचारात्कर्माप्यत्र भोगोपभोगत्वेनोक्तमित्यलं चर्चया । अत्र भावाना-सव्वेसिं साहणं, नमामि जेहिं अहियं ति नाऊणं । तिविहेण कामभोगा, चत्ता एवं विचिंतिजा ॥ १ ॥इति भावितं द्वितीयं गुणव्रतं ॥ ७॥ | अथ तृतीयमनर्थदंडविरमणव्रतं भाव्यते-तत्र यः स्वजनशरीरधर्माणामयारंभः क्रियते सोऽर्थदंडः,
शेषस्त्वनर्थदंडस्तस्माद्विरमणं निवृत्तिस्तद्रूपं यद्वतं तदनर्थदंडविरमणव्रतमुच्ते, अपध्यानादिचतुर्विधानर्थदंडपरित्यागरूपमित्यर्थः, तथाहिदंडिजइ जेण जिओ, बज्जिय नियदेहसयणधम्मटुं । सो आरंभो केवल-पावफलोणत्थदंड त्ति ॥ ५१ ।। अवज्झाण पावउवएस-हिंसदाणप्पमायचरिएहिं । जे चउहा सो मुच्चइ, गुणव्वयं तं भवे तइ ॥ ५२ ।।
आद्या उक्तार्था, द्वितीयस्या व्याख्या यथा-अपकृष्टं हीनं ध्यानमपध्यानमा रौद्रं च । अनयोः स्वरूपं चेदंराज्योपभोगशयनासनदाहनेषु,स्त्रीगंधमाल्यमणिरत्नविभूषणेषु। इच्छाभिलाषमतिमात्रमुपैति मोहा-यानं तदातमिति संप्रवदंति तज्ज्ञाः ॥१॥ संछेदनैर्दहनभंजनमारणैश्च, बंधप्रहारदमनैर्विनिकृतनैश्च। यो याति रागमुपयाति च नानुकंपां, ध्यानं तु रौद्रमिति संप्रवदंतितज्ज्ञाः ॥२॥ संसारे हि प्रायो धार्मिकाणामपि अंतरांतराऽपध्यानं जायत एव, परं ते ज्ञानवलादुन्मार्ग गछदपि स्वचित्तं संयम्य पुनः सन्मार्गमानयंति । ये तु नैरंतर्येण तत्र प्रवर्तते तेषां
उनक
Jain Education Inter
For Private & Personal use only
| www.jainelibrary.org