SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ द्वितीय प्रकाशे विरचिते देशविरति खरूपं ॥१७॥ हास्याप्यभक्ष्यभक्षणनियमस्य महाफलं विज्ञाय भव्यात्मभिर्विशेषतस्तस्य पालने तत्परैर्भवितव्यं । तदेवमुक्तं भोजनतो भोगोपभोगवतं । अथ कर्मतस्तदुच्यते-- जिनलाम कम्माउ जइ कम्म, विणा न तीरेइ निव्वहे तो । पनरस कम्मादाणे, चएइ अण्णं पि खरकम्मं ।। ४९॥ मरि व्याख्या-कर्मतः कर्माश्रित्य श्रावकेणोत्सर्गतो न किंचित्सावधं कर्म कर्त्तव्यं, निरारंभेणैव भाव्यमित्यर्थः। मात्म-18 यदि पुनः कर्म विना न निर्वहति तदापि पंचदश कर्मादानानि त्यजति । तान्यमूनी-अंगार १ वन २ शकट ३ | प्रबोधग्रन्ये । भाटक ४ स्फोटक ५ कर्माणि, दंत ६ लाक्षा ७ रस ८ केश ९ विष १० वाणिज्यानि, यंत्रपीडा ११ निन्छनं १२ दवदानं १३ सरोहदादिशोषः १४ असतोपोषश्चेति १६॥ तत्राजीविकार्थमंगारकरणभ्राष्ट्रभर्जनकुंभकारलोहकारसुवर्णकारत्वैष्टिकापाकादिवयारंभकरणमंगारकर्म १, वृक्षादेः पत्रपुष्पादेर्वा छेदनविक्रयाद्यारंभेण जीवनं वनकर्म २, शकटानां तदंगानां वा घटनेन शाकटिकत्वेन वा जीवनं शकटकर्म ३, स्वशकटवृषभादिना परभारवहनात्परेषां वा मूल्येन स्वशकटाद्यर्पणाजीवनं भाटककर्म ४, कुद्दालहलादिभिर्भूमिविदारणात्पाषाणादिघटनाद्वा जीवनं स्फोटककर्म ५, तथा यवादिधान्यानां स(सिक्थादिकरणेन विक्रयोऽपि स्फोटककमैव । यदुक्तं-जवचणया गोहुम-मु. ग्गमासकरडिप्पभिइ य धन्नाणं । सत्तयदालिकणिका, तंडुलकरणाइ फोडयणं ॥१॥ अहवा फोडीकम्मं, सीरेणं भूमि फोडणं जंतू । ओड्डत्तणयं च तहा, तहा य सिलकुट्टयंतं च ॥ २॥ इति । प्रथमत एव म्लेच्छादिभ्यो मूल्यदानेन | गजदंतानानाय्य विक्रयणं, आकरे वा गत्वा स्वयमानीय विक्रयणं दंतवाणिज्यं । इदं च शंखचर्मचामरादीनामप्यु CARRAIMARG ॥१७॥ -964 1 + 9 Jain Education Intem For Private & Personal use only www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy