________________
जिनलाभ
सरि विरचिते
मात्मप्रबोधग्रन्थे ॥२७॥
द्वितीय प्रकावे देशविरति
स्वरूप | ॥१७॥
प्रेषीत् । सोऽपि मित्रस्नेहात्सद्यस्ततश्चलितो, मार्गे च रोदनोद्यतं दिव्यं स्त्रीद्वयं विलोक्य 'के युवां किं वा रुदिय?' इति पप्रच्छ। ताभ्यामुक्तं-आवां सौधर्मकल्पवासिन्यौ देव्यो, भर्तुत्र्यवनाद्विरहविह्वले सत्यौ वंकचूलाख्यं क्षत्रियं भर्तारं प्रार्थयावहे, सोऽद्य त्वद्वचसा चेन्नियमं भक्ष्यति तर्हि आशु दुर्गतिं गता, तेन संप्रति रुदिवः।' ततो जिनदासेनोक्तं-'मा रोदिष्टं, यद्भवत्योरिष्टं तदेव करिष्यामि।' इत्युक्त्वा ते आश्वास्य स श्राद्ध उज्जयिनी समाजगाम । तत्र च तेन नृपादेशान्मित्रमंदिरमागत्य कुशलप्रश्नपूर्वकमौषधादिप्रवृत्तिं कुर्वता तस्य नियमेऽतिस्थिरत्वं विज्ञाय शरीरं च जर्जरीभूतं विलोक्य राजादिसर्वलोकसमक्षं प्रोक्तं-' अस्य धर्म एवौषधं युक्तं, अतोऽपरा काप्यौषधादिप्रवृत्तिन कार्या ।' वंकचूलेनापि प्रोक्तं-'हे मित्र ! यदि स्वमयि स्नेहं दधासि तर्हि आलस्यं विहाय मे प्रांतकालस्य शंबलं देहि। ततस्तेनापि सम्यग्रीत्या आराधना कारिता । तदाबंकचूलश्चतुर्विधाहारप्रत्याख्यानं कृत्वा चतुः शरणानि स्वीकृत्य पंचपरमेष्ठिनमस्कारं स्मरन् सर्वजीवेषु निर्वैरतां दधत् प्राक्कृतं दुष्कृतं निंदन सुकृतं चानुमोदयन् समाधिना कालं कृत्वा द्वादशे देवलोके देवत्वं संप्राप्तः । ततो जिनदासस्तस्यौदेहिकं कृत्वा गृहे वजन मार्ग ते द्वे अपि देव्यो पूर्ववदुदत्यौ वीक्ष्य पृष्टवान्-'हे भद्रे ! अद्यापि युवाभ्यां किमर्थमन्त्रैवं विलप्यते, सोडखंडितव्रतः सन् इतो मृत्वा भ्रवत्योवल्लभः किं न जातः ।' तदा ते देव्यौ निःश्वस्योचतुः-'हे स्वच्छाशय ! किं पृच्छसि ?,स ते सुहृत्पांते परिणामलिशुद्धयाऽस्मान् व्यतीत्य द्वादशं स्वर्ग जगाम । एतत् श्रुत्वा परमानंद संप्राप्तो जिनदासः सुहृदं ध्यायन् श्रीजिनधर्म चानुमोदयन् स्वगृहं ययौ । इति नियमपालने वकचूलवृत्तांतः । इत्थं स्वल्प
ACACA4945544%ACT
Jain Education Inter 15
For Private & Personal Use Only
www.jainelibrary.org