________________
ॐ
जिनलाम
सरि
49649*
विरचिते
आत्मप्रबोधग्रन्थे ॥१७२॥
NASIC
पुत्रपदे स्थापितवान्, तां स्त्रियं च हंतुमिच्छन्नपि अस्य वचसा जीवंतीममुंचत्। ततो वंकचूला स्वस्थ भगिनी पत्नी || च तत्रानाय्य ताभ्यां सहितः सुखेनास्थात् । तथा धर्मे संजातप्रत्ययः सन् विशेषतस्तत्रैव चित्तवृत्तिं बबंध, तान
द्वितीय नियमदातृन् गुरूंश्च नित्यं सस्मार । एकदाऽस्य भाग्योदयात्त एवाचार्यास्तत्र समेताः, अयं च महताडंबरेण गुरु
प्रकाशे वंदनार्थं गतः, तत्र शुद्धं धर्मस्वरूपं श्रुत्वा तत्वरुचिरूपं सम्यक्त्वं स प्रपन्नवान् । तदा चोजयिनीपार्श्ववत्तिशालि.
देशविरवि
स्वरूप ग्रामनिवासी जिनदासाख्यः श्रावकस्तस्य परममित्रमभूत् । एकदा राज्ञा कामरूपदेशाधीशं सुदुर्जयं मत्वा तज्जयार्थ ||
॥१७२॥ ऽपि नृपादेशात्तत्र गत्वा युद्धं कृत्वा कामरूपेशं विजित्य स्वयं च वैरिकृतशस्त्रप्रहारेजर्जरः सन् उज्जयिनी पुरी समाजगाम । तरच राहतत्पीडया पीडितेन बहन वैद्यानाकार्य तैरस्य चिकित्सा कारिता । परं कथमपि प्रहारा न संहिताः । तदा राज्ञा सरोषं पृष्टैवैद्यैर्नृपाग्रे काकमांसमौषधं प्रोक्तं । तत् श्रुत्वा राजा वंकचूलं गाढमालिंग्य साश्रुलोचनः सन् इत्थं प्रोवाच-'हे वत्स ! त्वदापदं छेत्तुं ये ये प्रतीकाराः कृतास्ते सर्वेऽपि ममाभाग्यावृथा जाताः, अथैकं वायसामिषं भेषजं विद्यते, तद्गृहाण, येन ते शरीरे सौस्थ्यं स्यात् ।' स प्रोचे-' हे नाथ ! अहं सर्वथा मांसभक्षणानिवृत्तोऽस्मि, ततो मे वायसामिषान्न कार्य ।' राज्ञोक्तं-' वत्स ! जीवतो जंतोनियमा बहुशो भवेयुः, परं मृतौ सति सर्वे यांति, तस्मादिदं भक्षय।' तदा स नृपोक्तं वचो निशम्य प्रोचे-'हे नाथ ! मम जीविते स्वल्पाऽपि तृष्णा नास्ति, एकदाऽवश्यं मृत्युर्भावी, तस्माजीवितं याति चेदधुनैव यातु, परमेतदकृत्यमहं न कुर्वे।।' ततो राजा बंकचूलस्य मित्रं शालिग्रामवर्ति जिनदासश्रावकमाह्वातुं निजं नरं
*******
**
Jain Education Intel
For Private & Personal use only
XIww.jainelibrary.org