________________
जिनलाभसूरि विरचिते
आत्म
प्रबोधग्रन्ये
॥ १७० ॥
Jain Education Inter
भ्राता तु सपरिच्छदः कापि गतोऽस्ति, यद्येतेऽपीदं ज्ञास्यति तर्हीयमनाथा पल्ली शत्रुभिः पराभविष्यते, तस्मात् कोऽप्यु| पायः कार्यः' इति विचित्याहं कैतवास्वद्वेषधारिणी भूत्वा सभायामुपविष्य तान् नृत्यं कारयित्वा क्षणाद्यथाधनदानतो बिसर्ज्या (विसृज्या) लस्यादपरित्यक्तपुंवेषैव भ्रातृजायया समं सुप्ता ।" एतद्वृत्तांतं श्रुत्वा वंकचूलो गुरुप्रसादादात्मानं भगिन्यादिहत्यापापादलिप्तं विभावयन् विशेषतो गुरुवाण्याः प्रशंसां चकार । अथैकदा स चौर्यार्थमुज्जयिनीं पुरीं ययौ, तत्र चार्धनिशायां कस्यापि धनिनो व्यवहारिणो गृहे प्रविष्टः परं कपर्द - ( र्हिका ) व्ययभ्रांत्या पुत्रेण सह विवदमानं गृहपतिं विलोक्य धिगेतादृशां धनमिति चिंतयन् ततो निर्गतः, ततः- 'स्तोकं | स्तोकं जनाद्याचित्वा संप्राप्तसंपत्तिलवानां द्विजानां धनेनाप्यलमिति' विचित्य तद्गृहाण्यपि मुक्तवान्। तदनंतरं' या ईषद्धनलिप्सया रमणीयं स्वशरीरमनपेक्ष्य कुष्टिनमपि सेवंते, तामां वेश्यानां धनेनापि मे न कार्यमिति' बिचारयन् तद्गृहाण्यपि विमुच्य नृपगृहसमीपमागत्य चिंतयति स्म - चौर्यमाचर्यते चेत्त-ल्लुंढ्यते खलु भूपतिः । फलिते धनमक्षीण-मन्यथाsपि चिरं यशः ॥ १ ॥ ' इति विचित्य वनाद्गोधामादाय तत्पुच्छलग्नः सन् राज्ञः सौधाग्रमारुह्यावास भवने प्रविष्टः । तत्र चाद्भुतरूपधारिणी राज्ञः पट्टदेवी दृग्गोचरमायाता । तया च कथितं- ' कस्त्वं ?, किमर्थमत्रायातोऽसीति प्रोक्तः सन् स प्रोचे ' अहं तस्करोऽस्मि, बहुतरं मणिरत्नादिद्रव्यं वांछन्निहागतोऽस्मि । ततस्तद्रूपलुब्धया राश्या मृदुवाण्या प्रोक्तं- "हे सौम्य ! द्रव्यस्य का वार्त्ता, एतत्सर्वं तवैवास्ति, अथ किं कंपसे १, सुस्थो भव, तव कुलदेवता तुष्टा, यदहं राज्ञः पट्टदेवी तव वश्या जाताऽस्मि, मयाऽय सौभाग्यगर्वेण राजाऽपि रोषितोऽस्ति,
For Private & Personal Use Only
द्वितीय
प्रकाशे
देशविरति स्वरूप
॥ १७० ॥
ww.jainelibrary.org