SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ जिनलाभवरि विरचिते आत्म प्रबोधग्रन्थे ॥१६९॥ Jain Education Inter तद्वचः श्रुत्वा क्षुत्पीडितोऽपि सन् स सधैर्य प्राह-'भो ! इदं वचो न वक्तव्यं, यदि प्राणा यांति तर्हि अधुनैव यांतु परं स्ववाचा गुरुसमक्षं स्वीकृतो नियमः स्थिरी भवतु । ' ततस्ते सर्वेऽपि भिल्लास्तानि फलानि स्वैरं भक्षयित्वा तृप्ताः संतस्तरुच्छायासु स्वपंति स्म । परमेकः सेवको वकचूलस्यानुरोधेन तानि न मुक्तवान् । अथ स्वयं शयित्वोत्थितः पल्लीशः स्वपार्श्वे सुप्तं भृत्यमुत्थाप्येति प्रोचे- 'भोः ! सर्वान् शीघ्रं जागरय, यथा स्वस्थानं गच्छामः ।' तेनापि शब्देन करस्पर्शेन च सर्वेऽप्युत्थापिताः परं कथमपि नोत्तिष्ठति स्म । तदा तान् सर्वानपि गतप्राणान् मत्वा पल्लीशाय तत्स्वरूपं निवेदितं । सोऽपि श्रुत्वा विस्मितः सन् स्वनियमं सफलीभूतममंस्त । ततोऽहो गुरुवाण्या माहात्म्यं !, यत्स्वल्पयाऽपि तयाऽधुनाहं जीवन् रक्षितो मया निर्भाग्येन प्राप्तसर्वेष्टसिद्धिविधायकः कल्पतरुरिवाकस्मादुपस्थितः श्रीगुरूणां वाक्प्रसरो वृथैव वर्जितः' इत्यादि चित्ते विभावयन् स पल्लीशो हर्षविषादाभ्यां सह रात्रौ स्वपल्लीं संप्राप्तः । तत्र च स्वगृहचरितं द्रष्टुं प्रच्छन्नवृत्त्या गृहमध्ये प्रविश्य दीपकप्रकाशात्पुरुषवेषया स्वभगिन्या सह सुप्तां स्वभार्यां दृष्ट्वा चिंतयामास - 'एषा मे स्त्री दुराचारिणी, अयं च कोऽपि दुराचारः पुमान् विद्यते, एतौ दुष्टौ आशु मारयामीति' विचित्यैकप्रहारेण तौ हंतुं यावत्वद्गमुत्पाटितवान् तावदस्य द्वितीयो नियमः स्मृतिमा - गतः । तदा पदसप्तक्रम पसरतस्तस्य क्रोधाकुलस्य खड्गो द्वारदेशे स्खलितः, खड्गखाट्कारेण च सद्यो जागृता बंकचूला 'हे भ्रातश्चिरं जीवे' त्यजल्पत् । ततो भगिनीं विज्ञायातिलज्जितः स खड्गेन सह कोपं वृण्वन् तां पुंवेषरचनाकारणं पप्रच्छ । साऽप्यूचे - "हे भ्रातरवे सायंकाले त्वां द्रष्टुं नटवेषधरास्तव शत्रूणां चराः समाजग्मुः, तदा मया चिंतितं- ' For Private & Personal Use Only द्वितीय प्रकाशे देशविरति स्वरूपं ॥ १६९॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy