SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ जिनलाम सरि प्रकावे निरचिते है आस्म- प्रबोधान्ये ॥१६८॥ द्वितीय देशविरवि खरूप ॥१८॥ + जनकं वनविभूषणबाहनादिकं च वर्जनीयं। शेषेऽपि प्रमाणं कार्य, तस्य विरतिपरिणतत्वादिति । अत्र केचिदज्ञानिनो वदंति-'संसारे हि शरीरमेव सारं, तच यथातथा वा पोष्यते, किमनया भक्ष्याभक्ष्यकल्पनयेति ?' तत्रोच्यते-'बहुधा पोषितस्यापि शरीरस्यासारत्वात्तदर्थ विवेकिनाऽभक्ष्यभक्षणं न विधेयमेव | यदुक्तं-अइपोसिअंपि विहडइ, अंते एअंकुमित्तमिव देहं । सावजभुजपावं, को तस्स कए समायरह ॥१॥ अथ दृष्टांतगर्भमस्य व्रतस्य फलं लेशतो दयते-- मसाईण नियम, धीमं पाणच्चये वि पालतो । पावइ परंमि लोए, सुरभोए वंकचूलो व्व ॥ ४८ ॥ अक्षरार्थः प्रतीतो, व्याख्यार्थस्तु कथानकगम्यस्तद्यथा अत्रैव भारते वर्षे विमलो नाम राजाऽभूत्, तस्य सुमंगला नामनी प्रिया, तयोश्चापत्यद्वयं जातं, तत्रैकः पुष्पचूलनामा पुत्रः, द्वितीया च पुष्पचूला नाम्नी कन्याका। यौवने च पित्रका राजकन्या पुत्राय परिणायिता । पुर कस्मैचिद्राजपुत्राय दत्ता। परं दुष्कर्मोदयावाल्ये एव पत्युर्मरणात्सा वैधव्यं प्राप्ता । साभ्रातृस्नेहात्पितुगृहे एवास्थात् । अथ पुष्पचलस्तु चौर्यादिव्यसनासक्तत्वेन पौरजनानत्यंतं पीडयन् लोके वंकचूलाख्यां प्राप्तः, तद्भगिन्यपि तत्समानबुद्धित्वेन बंकचूलेति प्रसिद्धाऽभवत् । ततो राज्ञा लोकतस्तस्योपालंभं बहुतरमाकर्ण्य रुष्टेन सता स पुराद्वहिः कृतः, तदा पत्नीभगिन्यावपि तत्स्नेहात्सार्थे निर्गते । ततो वंकचूल: पत्नीभगिनीभ्यां सह निर्भयः सन् कांचिदरण्यानीं भ्रमन् धनुधरैभिल्लैदृष्टः, तत्र च ते आकृत्यैव तं राजपुत्रं ज्ञात्वा सादरं प्रणम्य प्रश्नपूर्वकं तवृत्तांत | www.jainelibrary.org For Private & Personal Use Only Jain Education Intel
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy