SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ द्वितीय | प्रकाशे देशविराति जिनलाभ परि विरचिते मात्मप्रबोधनन्थे ॥१६॥ खरूपं CARDASRE महुंमि मंसे, नवणीयंमि चउत्थए । उप्पज्जति असंखा, तव्वण्णा तत्थ जंतुणो॥१॥ इति । तथा हिमविषकरकमृत्तिकारात्रिभोजनानि प्रतीतानि । तत्र हिमकरकमृत्तिकानां बहुजीवमयत्वात् विषस्य स्वोपघातकत्वान्मरणसमये | महामोहोत्पादकत्वाच, रात्रिभोजनस्य च बहुविधजीवसंपातसंभवेन ऐहिकपारभविकबहुदोषदुष्टत्वावर्जनीयत्वं बोध्यं । तथा यत्र भस्त्रायां मुद्गा इव बीजान्यव्यवहितानि तिष्टंति, तत्फलं बहुबीजं पंपोटकादि, तस्य प्रतिबीज जीवोपमईसंभवात् । तथाऽनंतकायिका म्लेच्छकंदादयो द्वात्रिंशत, तेषामनंतजीवमयत्वात् । तथा संधानं प्रतीतं, तस्य च बहुजीवसंसक्तिहेतुत्वात् । तथा घोलवटकानि आमगोरससंमिश्रद्विदलोपलक्षणं, तेषु च केवलिगम्यसू. मत्रसजीवसंसक्तिसंभवात् । यदुक्तं-जइ मुग्गमासपमुहं, विदलं कच्चमि गोरसे पडइ । ता तसजीवुप्पत्ति, भणति दहीए तिदिण उवरिं ॥ १॥ इति । तथा वृताकानि प्रतीतानि, एषां बहुबीजत्वेऽपि पृथग्ग्रहणमतीव लोकविरुद्धताज्ञापनार्थ, तेषां च बहुजीवमयत्वान्निद्राबाहुल्यमदनोद्दीपनादिदोषहेतुत्वाच्च वर्जनीयत्वं । तथा स्वयं परेण वा येषां नाम न ज्ञायते तानि अज्ञातनामानि पुष्पाणि फलानि च, तेषां प्राणोपघातादिजनकत्वात् । तथा | येन जग्धेन तृप्तिरल्पा आरंभस्तु महांस्तत्तुच्छफलं, गंगेटककोमलफलिकादि,तस्य चानर्थदंडत्वात्। तथा चलितरसं | कुथितधान्यं, तस्य चानंतकायत्वाद्वर्जनीयत्वं बोध्यं । न चैतावत्येवाभक्ष्याणि, किंतूपलक्षणत्वायथाई यथायोग्यमन्यान्यपि दिनद्वयातीतदधिपुष्पितौदनादिसंसक्तपत्रपुष्पादीनि बहुसावद्यानि वस्तूनि वर्जनीयानि । किंचाल्पसावधेऽपि ओदनादौ इदमेतावन्मया भोक्तव्यमिति प्रमाणनियतत्वं विधेयं । तथाऽत्यंतचेतोगृध्ध्युन्मादापवादादि COCALA Jain Education Inter For Private & Personal use only R www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy