SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ जिनलाभसूरि विरचिते मात्मप्रबोधग्रन्ये ॥१६६॥ Jain Education Interns समाकर्ण्य बहुमानतः स्वपल्लीं समानीय मूलपल्लीपतेर्मृतत्वात् तत्स्थाने तं स्थापितवंतः । ततो बंकचूलो मिल्लैः सार्धं महीतलं लुंटन् तत्र सुखेन तस्थौ । अथैकदा वर्षाप्रादुर्भावसमये कियद्भिर्मुनिभिः परिवृताः श्रीचंद्रयशः सूरयः सार्थपरिभ्रष्टास्तत्र समेताः, तदा नव्योत्पन्नांकुरसंमद्दत्सचित्तजलसंघट्टाञ्च भीरव आचार्या विहारायोग्यतां ज्ञत्वा तां पल्लीं प्रविष्टाः । बंकचूलोऽपि मुनीन् दृष्ट्वा कुलीनत्वात् प्रणमति स्म । तदा गुरवो धर्मलाभाशिषं दत्त्वा तं प्रति वसतिं ययाचिरे । तेनाप्युक्तं- 'स्वामिन् ! तुभ्यं वसतिं दास्यामि, परं मम सीमायां कदापि धर्मो न वाच्यः, यतो येषां हिंसा सत्यचौर्यादीनां त्यागेन धर्मः संपद्यते तैरेवास्माकमाजीविका विद्यते इति । एवं तेनोक्ते सति गुरुभि स्तद्वचोऽगीकृत्य तद्दर्शितनिरवद्यस्थानके स्वाध्यायध्यानादि धर्मकृत्यं कुर्वद्भिश्चतुरो मासान् यावत्तस्थे । तत्र च तेनाहारादिनिमंत्रणायां कृतायां गुरुभिरुक्तं- 'भवदीथगृह भिक्षाऽस्माकं न करूपते, वयं तपश्चर्ययैवेह स्थिताः सुखेन कालं गमयिष्यामः, भवतो हि उपाश्रयदानेनैव महापुण्संबंधो जातः । उक्तं च-जो देह उवस्मयं मुणि- वराण त नियमजोगजुत्ताणं । तेणं दिन्ना वत्थन्न-पाणसयणासणबिगप्पा ॥ १ ॥ पावड़ सुरनररिद्धी, सुकुलुप्पत्ती य भोग | सामग्गी । नित्थरइ भवमगारी, सिज्जादाणेण साहूणं ॥ २ ॥ ततो वर्षाकालेऽतिक्रान्ते गुरुभिस्तं वकचलमापृच्छय विहारे क्रियामाणे सोऽपि तेषां सत्यप्रतिज्ञतादिगुणैर्दृष्टः सन् भक्त्या तान् गुरूनन्वगात् । तत्र कियत्यपि मार्गे गते सति स चिरस्थितमुनिवियोग विह्वलः सन् गुरून् नत्वा व्यजिज्ञपत्-' स्वामिन्नितः परं परेषां सीमा विद्यते, अतोऽहं वलिष्ये, पुनर्मम भवद्दर्शनं सद्यो भवतात् । ' एवं तेनोक्ते सति गुरवो मधुराक्षरैस्तं प्रोचु:-' हे सौम्य ! For Private & Personal Use Only द्वितीय प्रकाशे देशविरति स्वरूप ॥१६६॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy