SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ द्वितीय प्रकाशे 45 देशविरवि खरूपं मस्ति?, येनाहं चक्रवर्ती न भवेयं ।' इति श्रुत्वा यथावस्थितवादी श्रीजिनः प्रत्यभाषिष्ट-'हे राजन् ! किमनया जिनलाभ- समृद्ध्या स्यात् ?, चक्रादिचतुर्दशरत्नसमूहं विना चक्रित्वं कदापि न भवेत् ।' ततःस एतत्पभुवचः श्रुत्वा स्व ६ स्थानं गत्वा लोहादिमयानि सप्तैकेंद्रियरत्नानि चकार,स्वस्य पद्मावती प्रियां च स्त्रीरत्न कल्पयामास, तथा आत्मनः | विरचिते पट्टहस्त्यादीन्येवावशिष्टरत्नानि विदधे। अथैवमेतानि रत्नत्वे संस्थाप्य स राजा प्राच्यादिक्रमात् सर्वदेशानाज्ञाका. बात्मप्रबोधान्ये रिणः कृ वा बहुसैन्यपरिवृतो वैतायतले तमिस्रा गुहां संप्राप्तः। तत्र च दंडरत्नेन गुहाद्वारकपाटौताडितवान् , परं ॥१६३॥ तौ नोद्घटितौ । ततः पुनर्दडप्रहारे कृते सति तद्द्वारपालकः कृतमालदेवः क्रोधेन तमवादीत्-'रे! अप्रार्थ्यप्रार्थक ! त्वं कोऽसि १, इतो याहि,खाटूकारैः कर्णी किं कदर्थयसि ?।' सोऽप्युवाच-' भरतक्षेत्रेहमशोकचंद्रो नाम नवीनश्चक्रवर्ती जातोऽस्मि, अतः शीघ्रं द्वारमुद्घाटय । ' देवेनोक्तं- भो! अत्र क्षेत्रे द्वादश चक्रिणो भवंति, ते त्वभवन्, तस्मान्न त्वं चक्री, किं तु कोऽपि चाक्रिकोऽसि ।' भूपेनोक्तं-' मत्पुण्यैरहं त्रयोदशः चक्री कृतोऽस्मि, त्वं किं न जानासि तस्माद् द्वारमुद्घाटय, विलंबविधानेन मां मा खेदय।तत इत्थं भूताविष्टमिवानिष्टभाषिणं तमशोकचंद्रमतिक्रुद्धो देवः प्रज्ज्वलदनलज्वालया ज्वालयित्वा सद्यः षष्ठनरकातिथिं चके । इत्यशोकचंद्रकथा । एषोऽशोकचंद्र इवान्योऽपि यः कश्चित्पुमान् दिग्गमनप्रमाणं न करोति स इत्थमैहलौकिकमपायं प्राप्य परत्र नरकार्तिपात्रता याति, तस्माद्व्यांगिभिरेतव्रतस्वीकारेऽलसैन भाव्यं । अत्र भावना-चिंतेअव्वं च नमो, साहणं जे सया निरारंभा । विहरति विप्पमुक्का, गामागरमंडियं वसुहं ॥१॥इति भावितं प्रथमं गुणवतं ६॥ ॐॐॐॐॐ SARKARI Jain Education Intel For Private & Personal Use Only T w .jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy