________________
जिनलाभ वरि विरचिते
जात्म
प्रबोधग्रन्थे
॥१५७॥
Jain Education Internas
सेवंति पहुं लंघंति, सायरं सायरं भमंति भुवं । विवरं विसंति निवमंति, पिउवणे परिग्गहे निरया ॥ ४० ॥ ourer - परिग्रहे द्रव्यादिसंचये निरता एकाग्रचित्ताः प्राणिनः प्रभुं धनस्वामिनं सेवंते, सागरं लंघंति, सादरं यथा स्यात्तथा भुवं भ्रमंति, तथा सिद्धरसायर्थं विवरं गिरिकंदरं प्रविशंति, पुनमंत्रादिसिद्धये पितृवने स्म शाने निवसंति । यत एवं दुःखहेतुः परिग्रहस्ततः संतोष एव श्रेयान्, संतोषवता हि निर्धनेनापि इंद्राधिकं सुखमनुभूयते । तथाहि
संतोसगुणेण किं चणो वि इंदाहिये सुहं लहइ । इंदस्स वि रिद्धि. पाविऊण ऊणोचिय अतुठ्ठो ॥ ४१ ॥ सुगमार्था । अथोक्तलक्षणपरिग्रहप्रमाणस्वरूपस्य संतोषस्य दृष्टांतगर्भ विवेकमूलकत्वं दर्श्यतेविवेकः सद्गुणश्रेणि-- हेतुर्निगदितो जिनैः । संतोषादिगुणः कोऽपि प्राप्यते न हि तं विना ॥ ४२ ॥ प्रादुर्भावे विवेकस्य गुणाः सर्वेऽपि शोभनाः । स्वयमेवाश्रयंते हि भव्यात्मानं यथा धनं ॥ ४३ ॥ श्लोकार्थः सुगमः । भावार्थस्तु धनवृत्तांतादवसेयः । स चैवं
एकस्मिन्नगरे श्रीपतिर्नाम महाधनवान् श्रेष्ठी वसति स्म । तस्य धननामा पुत्रोऽभूत्, स च पित्रा महेभ्यगृहे परिणायितः । एकदा सर्वसूरिगुणालंकृताः श्रीसोमाचार्यास्तत्र समेताः, बहवो भव्यलोकास्तद्वंदनार्थं गताः, श्रीपतिश्रे. छयपि तत्र गतः, सूरिभिर्देशना दत्ता, तत्र च परिग्रहप्रमाणत्रतस्वरूपं विशेषतो वर्णितं, तदा देशनांते समुत्पन्नविवेकेन श्रीपतिश्रेष्ठिना सूरीणां पार्श्वे तद्वतं गृहीतं । अन्यैरपि श्रावकैर्विविधा नियनाः स्वीकृताः, ततस्ते सर्वेऽपि गुरुं
For Private & Personal Use Only
+6+96
द्वितीय प्रकाशे देशविरति
स्वरूपं
॥१५७॥
Jainelibrary.org