________________
जिनलाम
परि विरचिते बास्मप्रपोषान्ये
AILE
दासनामा तत्पतिश्च तद्दिनादारभ्य सत्यश्रावको भूत्वा तया सह सुखेन सत्पीत्या कालं गमयामास । एवमुभा. बपि चिरं गृहस्थधर्म प्रपाल्यांते संयममाराध्य सद्गतिभाजनं बभूवतुः । इति चतुर्थव्रते सुभद्राकथानकं । एवं द्वितीय शीलमाहात्म्यं श्रुत्वान्यैरपि भव्यात्मभिः सच्छीलपालने सादरैर्भाव्यं । अत्र भावना-चिंतेअव्वं च नमो, तेसिं | प्रकारे तिविहेण जेहिं अबंभं । चत्तं अहम्ममूलं, भवगम्भवासाणं ॥१॥ इति भावितं चतुर्थ व्रतम् ४।
देशविरति अथ पंचम स्थूलपरिग्रहविरमणव्रतं भाव्यते-स्थूलो यः परिग्रहस्तद्विरमणरूपं यद्वतं तत् स्थूलपरिग्रहविरम
खरूपं
॥१५५॥ |णव्रतमुच्यते, क्षेत्रादिनवविधपरिग्रहपरिमाणरूपमित्यर्थः । तथाहि-- ____ गेही गिद्धिमणंतं, परिहरिय परिग्गहे नवविहंमि । पंचमवए पमाणं, करेन इच्छाणुमाणेणं ॥ ३९ ॥
व्याख्या-पंचमे परिग्रहविरत्याख्ये व्रते गेही गृहस्थोऽनंतां गृद्धिं लिप्सां परिहृत्य नवविधे परिग्रहे प्रमाणं कुर्यात् , इदमेतावन्मम मुत्कलमिति । परिग्रहस्य नवविधत्वं तु क्षेत्र १ वास्तु २ हिरण्य ३ सुवर्ण ४ धन ५ धान्य ६ द्विपद ७ चतुष्पद ८ कुप्य भेदाद्भवति । तत्र क्षेत्रं धान्योत्पत्तिभूमिस्तत्रिविधं-सेतुकेतूभयभेदात् । तत्र सेतुक्षेत्रं यदरघादिजलेन सिच्यते १, केतुक्षेत्रमाकाशोदकनिष्पाद्यसस्य २, उभयक्षेत्रं उभयजलनिष्पाद्यसस्यमिति ३ । वास्तु गृहहहादि ग्रामनगरादि च, तत्र गृहं त्रिविधं, खातोच्छ्रिततदुभयभेदात् , तत्र खातं भूमिग-15 हादि १, उच्छ्रितं प्रासादादि २, तदुभयं भूमिगृहोपरिस्थः प्रासाद इति३। हिरण्यं रजतं । सुवर्ण प्रसिद्धं । | घनं गणिमादिभेदाचतुर्विध, तत्र गणिमं पूगिजातिफलादि १, धरिमं कुंकुमगुडादि २, मेयं घृतलवणादि ३,
Jain Education Intem
For Private & Personal use only
AMw.jainelibrary.org