SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ द्वितीय प्रकाशे देशविरति खड ॥१५॥ नीयतां ।' देवी प्राह-हे वत्से! त्वं खेदं मा उदह, तव कलंकापनोदार्थ जिनशासनप्रभावनार्थ च प्रातः सर्व जिनलाभ शुभं करिष्ये, त्वं निश्चिंता सती शयनं कुरु' इत्युक्त्वा देवी तिरोऽभूत् । सुभद्राऽपि निद्रां कृत्वा प्रातर्जागृता सरि देवगुरुस्मरणपूजनादिनित्यक्रियां चकार । अथ प्रातरिपालेराकृष्यमाणा अपि पुरप्रतोलीद्वारकपाटाः कथमपि | विरचिते नोद्घटते स्म । तदा निखिलेऽपि द्विपदचतुष्पदादिपूलोंके क्षुत्तृषादिना व्याकुलीभूते सति नृपोऽपि भृशं व्याकु आत्म- | लतां भेजे । ततो भूपतिस्तदैवतं कर्म मत्वा स्वयं शुचीभूय धृपोत्क्षेपपूर्वकं प्रांजलिः सन् जगाद-' श्रूयतां भो प्रबोधग्रन्थे देवदानवाः! यः कोऽपि ममोपरि कुपितो भवेत् स पुष्पधूपादिबलि लात्वा प्रसन्नो भवतु । ' इति राज्ञोक्ते सति ॥१५३॥ व्योम्नीत्थं वचः प्रादुर्बभूव जलमुद्धृत्य चालिन्या, कूपतस्तंतुबद्धया । काचिन्महासती पुर्याः, कपाटांश्चुलुकैस्त्रिमिः । १॥ आच्छोटयति चेच्छीघ्र-मुद्घटतेऽखिला अपि । कपाटा द्वारदेशस्था, नो चेन्नैव कदाचन ॥२॥ एतां वाचं निशम्य ब्राह्मणीक्षत्रियावैश्याशूद्रीप्रमुखा बह्वयो नगरनार्यः कूपोपकंठे समागत्य चालिन्या वारि गृह्मानाः सूत्रतंतुत्रुटनाचालिन्याः पतनाच तज्जलमप्राप्य विमनस्कतां प्राप्ताःसत्यः स्वस्वस्थानं जग्मुः। तस्मिन् समये विनीतात्मा सुभद्रा श्वश्रू मधुरस्वरेण जगौ-'हे मातस्त्वदाज्ञयाऽहं चालिन्या जलमाकर्ण्य तेन पूर्वारोदघाटनं कमिमच्छामि ।' श्वश्रूराख्यत्-'हे जैनमुनिसेविके! तव सतीत्वं तु पुरा मया ज्ञातमेव, सांप्रतं सर्वलोकानां ज्ञापनेन किं प्रयोजनं ?, एताः सर्वा अपि नार्यः पूारोद्घाटने न क्षमा जातास्तर्हि त्वं कथं क्षमा भविष्यसि ।' सुभद्रोवाच Jain Education Inter For Private & Personal Use Only Frow.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy