SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 56 प्रकाशे जिनलाभ परि विरचिते मात्मप्रबोधग्रन्थे वसंतपुरे जिनदासनामा श्रावको वसति स्म। तस्यात्यंतशीलवल्लभा जिनमती नाम्नी वल्लभाऽभूत् । तयोः सुभद्राख्या सुता । सा च वाल्यादेव शुद्धसम्यक्त्वधारिका महाभाविकाऽभवत् । तद्रूपमोहितबहुभिर्मिथ्यात्विवणि द्वितीय कपुत्रैः प्रार्थिताऽपि काकेभ्यः पायसमिव मिथ्यात्वित्वात्तेभ्यो जिनदासेन न दत्ता । अन्यदा बौद्धधर्मविशारदो बुद्धदासो नाम वणिकपुत्रो वाणिज्यार्थ चंपातस्तत्रागात् । तेन कदापि व्यापारार्थ श्रेष्ठिगृहमागतेन तां सुभद्रां देशविरति | दृष्ट्रा पाणिग्रहार्थ याचिता, परं तज्जनकस्तस्मै मिथ्याष्टित्वान्न ददौ । तदा स कन्यार्थी दंभतो जैनमुनिसेवनया |श्रावकाचारं शिक्षित्वा कपटश्रावको बभूव । श्रद्धांविनापि नित्यं देवपूजनसाधुसेवनावश्यकादिधर्मकृत्यानि कुर्वाणः स तिष्ठति स्म । ततस्तस्य जिनदासेन सह मैत्री जाता, तदा प्रेष्ठिना मित्रत्वात्साधर्मिकत्वाच तस्मै सुभद्रा परि| णायिता । ततः स बुद्धदासस्तया सह वैषयिकं सुखं भुंजानः सुखेन कालं गमयन् तत्र प्रभूततरं द्रव्यमुपायं | स्वदेशगमनार्थमेकदा विनयेन श्वशुरमापृच्छत । तदा श्रेष्ठिनोक्तं-'हे वत्स ! त्वया साधूक्तं, परं ते मातापितरौ वैधर्मिको वर्तेते, अत उच्यते तो महिषौ वडवामिवेमां कथं सहिष्येते?।' जामात्रोक्तं-' एतामहं पृथग्गृहे स्थापहै यिष्यामि; एतद्विषया भवद्भिः काऽपि चिंता न कार्या, मह्यं गमनाज्ञा दीयतां ।' श्वशुरेणोक्तं- तव पंथानः कुशलिनः संतु ।' ततः स श्वशुरादेशात्सुभद्रया साई यानारूढो मार्गे चलन् क्रमेण चंपां प्राप्य तां पृथगावासे स्थापयित्वा स्वयं निजगृहं गत्वा मातापितृभ्यां मिलितः। तत्र सर्वमपि पूर्ववृत्तांतमुक्त्वा स्वकार्यपरः सन् स्वगृहेऽ-18 स्थात् । अथ सा सुभद्रा तत्रस्था सती निश्छद्मवृत्त्या आहेतं धर्म सिषेवे। परं तस्या श्वभूननांदा च तस्याश्छिद्रं दह ASSESASSES 35 Jain Education inte For Private & Personal Use Only ww.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy