SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ जिनलाभ सरि विरचिते आत्मप्रबोधग्रन्थे ॥१४॥ POSIGNOSANSAGARLS व्याख्या--इह संपमारामे चरतां मृगाणामिव नराणां नार्यः सद्गतिविघ्नहेतुत्वाद्यथा पाशभूताः संति तथा | तासां नारीणामपि नराः पाशभूता भवंति, कामस्योभयांशावलंबित्वात्। यस्मादेवं तस्माद्यथा शीलाभिलाषिणः | द्वितीय पुरुषाः परस्त्रीसंगं वर्जयंति तथा नार्योऽपि परैः स्वभर्तृव्यतिरिक्तैः पुरुषैः सह प्रसंग रहोऽवस्थानवक्रवीक्षणमन्म-16 & प्रकाशे नोल्लापादिकामोद्दीपकपरिचयं परिहरंति । एतेन ब्रह्मव्रतमाद्रियमाणया स्त्रिया स्वभर्तृवर्जस्य सामान्यतः पुरुषमा- देशविरति त्रस्य वर्जन कार्यमिति निवेदितं । अथ सुशीलानां दुःशीलानां चांतरं गाथाद्वयनोच्यते-- खरूप ॥१४८॥ ते सुरगिरिणो वि गुरू, जेसिसीलेण निम्मला बुद्धी। गयसीलगुणा पुण मुण, मणुए तणुए तिणाओ वि ॥ २९॥ वग्घाइया भयहा, दुहा वि जिआ न सीलवंताणं । नियछायं पि निरक्खिय, सासंका हुंति गयसीला ॥ ३०॥ ___व्याख्या-ते मनुष्याः सुरगिरेमरोरपि गुरवो, येषां बुद्धिः शीलेन निर्मला भवति, मेरोर्लक्षयोजनमानत्वात्,12 | तेषां तु यशःशरीरस्य त्रिभुवनव्यापकत्वात् । तथा गतशीलगुणान् मनुजान तृणादपि तनुकान् लघून जानीहि । तृणं हि लघुत्वाद्वायुना ह्रियमाणमपि क्वचिद्विरिपाषाणादौ स्खलितमवतिष्ठते, परं कुशीललघुस्तु बहुसंचितदुष्कृ|तप्रेरितस्त्रैलोक्यमपि भ्रमन् न लभते क्वचिदवस्थितिमित्यस्य तृणादपि लघुत्वं । तथा व्याघ्र आदिर्येषां साग्निपिशाचादीनां ते व्याघ्रादयो दुष्टा अपि जीवाः शीलवतां न भयार्था, भयहेतवो न भवंतीत्यर्थः । तथा गतशीलाः पुरुषास्तु निजच्छायामपि निरीक्ष्य माऽस्मदुष्कर्मगवेषक एषः कोऽपि पुरुषो भूदिति स्वमतिकल्पनयैव साशंका समया भवंति । उक्तं च-सर्वत्र शुचयो धीराः, स्वकर्मबलगर्विताः। कुकर्मनिरतात्मानः, पापाः सर्वत्र शंकिताः Jain Educatante For Private & Personal use only jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy