SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ जिन लाभपूरि विरचिते आत्मप्रबोधग्रन्थे ॥ १४७॥ Jain Education Inter पित्रा शिक्षितौ - ' हे वत्सौ ! किमेतद्यौवने युवाभ्यामनुष्ठीयते १, न ह्यतः परं महत्त्व भंगस्य किमपि कारणमस्ति, यन्मुग्धहृदयाः कुलवधूरवधूय परमार्थतो निःस्नेहासु वेश्यास्वनुरागो बद्धयते । एवं पित्रा शिक्षितावपि तौ यदाऽवगणितकशाघातौ तुरगाविव संमुन्मूलितालानौ द्विरदाविव यथेष्टमेव कुंभमाणौ एकद्रव्याभिलाषित्वान्मिथःकृतकटकबंधौ गृहीतखड्गादिप्रहरणौ निर्लज्जतया वैरिणाविव कलहायेते स्म तदाऽसाध्यव्याधिग्रस्ताविव प्रबलपिशाचच्छलिताविव तावशक्यप्रतिकाराववबुध्य तद्दुःखाद्दारद्वयसमन्वितेन भूपालेन कालकूट भक्षणात्कालः | कृतः । तावपि लोकैर्निद्यमानौ परस्परं युद्धयमानौ महादुःखभाजौ बभूवतुः । तदेवं वेश्याव्यसनं दुरंतमवबुध्य सुबुद्धिभिर्न समाचरणीयं । ततश्च परस्त्रीषु साधारणस्त्रीषु च कामसंसर्गं परित्यज्य सुश्रावकेण स्वदार संतुष्टन भाव्यं, अन्यथा कामांधत्वापत्तेः, कामांधत्वं च श्रावकाणामनुचितमेव, तथाहि कामं कामंघेणं, न सावरणं कयावि होयव्वं । देहधणधम्मखयकारिणी हि कामम्मि अइगिद्धी || २७ ॥ व्याख्या - श्रावकेण कदापि काममत्यर्थं कामेन मैथुनाभिलाषेणांघ इव आच्छादितविवेक हकत्वात्कामांधः, एवं विधेन न भाव्यं, कामांधत्वे दोषमाह - देहेत्यादि, हि यस्मात्कारणात् कामेऽतिगृद्धिरतिलोलुपता देहधनधर्माणां क्षयकारिणी विद्यते इति । एवं कामांधत्वे दोषान् विज्ञाय न हि स्वदारेष्वपि अत्यंतगृद्धिगृहिणा कार्या । तदेवमुक्तं पुरुषानाश्रित्यशीलस्वरूपं, अथ नारीः प्रतीत्य तदुच्यते जह नारी नराणं, तह ताण नरा वि पासभूयाओ । तम्हा नारीओ वि हु, परपुरिसपसंगमुज्झति ॥ २८ ॥ For Private & Personal Use Only द्वितीय प्रकाशे देशविरचि खरूपं ॥ १४७॥ w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy