________________
&ा प्रकाशे
गत्वा जिनपूजां विधाय श्रीजिनाग्रे कायोत्सर्गेण तस्थे । तस्मिन्नेवावसरे कुतश्चिद्दवयोगात्तष्ठितः समागच्छता जिनलाम8 कोहपालेन तत्कुंडलं दृष्ट्वा झटिति ततो गृहीत्वा दुष्टबुया नागदत्तशिरसि कलंकप्रदानार्थ सद्यो जिनालये आग-181 द्वितीय
त्य कायोत्सर्गस्थस्यैव तस्य कर्णे कुंडलं निक्षिप्य तं च गाढवंधनैर्बध्वा नृपसमीपे निन्ये । नृपेण च तस्य कर्णे विरचिते | स्वकुंडलदर्शनाचौरोऽयमिति निश्चित्य कुपितेन सता कोहपालं प्रति तद्वधादेशो दत्तः । ततः कोहयालोऽपि स्ववा- देशविरति आत्मछितार्थ सफलीभूतं मन्यमानो हृष्टः सन् नागदत्तं प्रति चौरमिव विडंबयन नागवसोः श्रेष्ठिपुत्र्या गवाक्षाधो याव
स्वरूप प्रबोधान्या
॥१४४॥ TREMIEनिर्गतस्तावत् नागवसुकन्या शुद्धश्रद्धालोः स्वभ स्तवस्थां विलोक्य स्वमनस्यतीव दुःखमुहंती श्रीजिनमताप-18|"
भ्राजनानिवारणार्थ स्वभर्तृसंकटस्फेटनाथं च सद्यः स्वगृहजिनालये आगत्य शासनसुमिनुस्मृत्य 'यदेदमकार्य है विलयं यास्यति तदाऽहं कायोत्सर्ग पारयिष्ये' इति मनसि निश्चयं विधाय धर्मध्यानं कुर्वती श्रीजिनप्रतिमाऽग्रे कायोत्सर्गेण तस्थौ । अथ स कोपालस्तं नागदत्तं स्मशाने नीत्वा यावत् शूलिकामारोपयति स्म तावत् सा भग्ना, एवं वारत्रयं जातं । तदनंतरं पुनः श्रीजिनधर्ममाहात्म्यतः शासनसुरीकृतसाहाय्यात् शूलिकास्थाने सिंहासनं जातं । ये पुनस्तदानीं खड्गप्रहाराः कृतास्ते सर्वेऽपि माल्याभरणतां प्राप्ताः । ततो विस्मितैर्लोकः सर्वोऽप्ययं व्यतिकरो नृपाग्रे निवेदितो। नृपोऽपि तत्प्रवृत्तिश्रवणातिविस्मितः सन् सद्यस्तत्रागत्य नागदत्तं स्वर्णसिंहासनोपविष्टं विविधमाल्यालंकारविभूषितं च समीक्ष्य स्वकृतापराधं पुनः पुनःक्षामयित्वा नागदत्तं हस्तिस्कन्धे समारोप्य महोत्सवेन पुर| मध्ये प्रवेशयामास । तदवसरे तादृग्धर्मप्रभावदर्शनाल्लोकाः सर्वेऽपि श्रीजिनधर्मप्रशंसां चक्रुः । तदा नागवसुक
SALMACANCIES
G44MONOCENCCI
Jain Education Internet
For Private & Personal use only
w.jainelibrary.org