SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ जिनलाभबरि विरचिते आत्मप्रबोधग्रन्थे ॥१४०॥ Jain Education Interna मलिनात्मा अतिनिर्मलां मां स्वाधः चिक्षेपेत्यमर्षादिव तस्य स्फटिकमयी वेदिका सद्यः पुस्फोट । तथा कुपिता | राज्यदेवता वसुं सिंहासनादधः पातयति स्म । तदा नारदोऽपि - ' हे सर्वधर्मपरिभ्रष्ट ! त्वं द्रष्टुमुचितो ने 'ति तं निंदन् सद्यस्ततो निरगात् । पर्वतस्तु-' रे मूढ ! त्वया गूढमंत्रेण किं कृतमिति जनैर्निद्यमानः सर्वथा मानभ्रष्टो भूत्वा तन्नगरं तत्याज | वसुश्च राज्यदेव्या वेगात् चपेटाप्रहारेण हतो दुरितकुहसाहाय्यात्सप्तमं नरकं ययौ । ततस्तस्यापराधिनः पट्टे यो यः पुत्र उपविष्टः मस क्रमेणाष्टौ यावद्देवतया हतः । यदुक्तं यो यः सूनुरुपाविक्षत्, पतस्यापराधिनः । स स देवतया जघ्ने, यावदष्टावनुक्रमात् ॥ १ ॥ न भुक्तमाजन्म कदापि भुक्त-मन्ते विषं हन्ति यथा मनुष्यम् । कदाप्यनुक्ता वितथा तथा गी-रुक्तावसाने वसुमाजघान ॥ २ ॥ इति द्वितीये व्रते वसुनृपकथानकं । इत्थं मृषावादविपाकं निशम्य सर्वेऽपि भव्या एतत्परिहारे तत्परा भवंतु, येन सर्वेष्टसिद्धिः संपद्यते । अत्र भावना थोपि अलिवणं, जे न हु भासंति जीवियंते वि। सच्चे चेव रयाणं, तेसिं नमो सच्बसाहूणं ॥ १ ॥ इति | भावितं द्वितीयं व्रतं २ । अथ तृतीयं स्थूलादत्तादानविरमणव्रतं भाव्यते - स्थूलं यददत्तादानमत्त वस्तुग्रहणं विरतिस्तद्रूपं यद्वतंतत्स्थूलादत्तादानविरमणव्रतमुच्यते सवित्तादिस्थूलवस्तुवर्जनरूपमित्यर्थः तथाहि -तड़यवनि चहलो, सचित्ताचित्तथूल चोरिजं । तिणमाइतणुअतेणिय- मेसो पुण मोतुमसमत्थो ॥ १६ ॥ व्याख्यागृहस्थस्तृतीये व्रतेऽदत्तादानविरतिरूपे सचित्तं द्विपदचतुष्पदादिकं, अचित्तं सुवर्णरूप्यादि, उपलक्षणत्वान्मिश्रं चालंकृत स्त्रीप्रभृतिकं वस्तु, तद्विषयं स्थूलं चौर्य त्यजेत् , स्थूलत्वं चास्य स्थूलबुद्धेरपि निद्यत्वा चौर्यव्यपदेशहेतु For Private & Personal Use Only द्वितीय प्रकाशे देशविरति स्वरूप ॥१४०॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy