SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ जिनलाभबरि विरचिते आत्मप्रबोधग्रन्थे ॥१४०॥ Jain Education Interna मलिनात्मा अतिनिर्मलां मां स्वाधः चिक्षेपेत्यमर्षादिव तस्य स्फटिकमयी वेदिका सद्यः पुस्फोट । तथा कुपिता | राज्यदेवता वसुं सिंहासनादधः पातयति स्म । तदा नारदोऽपि - ' हे सर्वधर्मपरिभ्रष्ट ! त्वं द्रष्टुमुचितो ने 'ति तं निंदन् सद्यस्ततो निरगात् । पर्वतस्तु-' रे मूढ ! त्वया गूढमंत्रेण किं कृतमिति जनैर्निद्यमानः सर्वथा मानभ्रष्टो भूत्वा तन्नगरं तत्याज | वसुश्च राज्यदेव्या वेगात् चपेटाप्रहारेण हतो दुरितकुहसाहाय्यात्सप्तमं नरकं ययौ । ततस्तस्यापराधिनः पट्टे यो यः पुत्र उपविष्टः मस क्रमेणाष्टौ यावद्देवतया हतः । यदुक्तं यो यः सूनुरुपाविक्षत्, पतस्यापराधिनः । स स देवतया जघ्ने, यावदष्टावनुक्रमात् ॥ १ ॥ न भुक्तमाजन्म कदापि भुक्त-मन्ते विषं हन्ति यथा मनुष्यम् । कदाप्यनुक्ता वितथा तथा गी-रुक्तावसाने वसुमाजघान ॥ २ ॥ इति द्वितीये व्रते वसुनृपकथानकं । इत्थं मृषावादविपाकं निशम्य सर्वेऽपि भव्या एतत्परिहारे तत्परा भवंतु, येन सर्वेष्टसिद्धिः संपद्यते । अत्र भावना थोपि अलिवणं, जे न हु भासंति जीवियंते वि। सच्चे चेव रयाणं, तेसिं नमो सच्बसाहूणं ॥ १ ॥ इति | भावितं द्वितीयं व्रतं २ । अथ तृतीयं स्थूलादत्तादानविरमणव्रतं भाव्यते - स्थूलं यददत्तादानमत्त वस्तुग्रहणं विरतिस्तद्रूपं यद्वतंतत्स्थूलादत्तादानविरमणव्रतमुच्यते सवित्तादिस्थूलवस्तुवर्जनरूपमित्यर्थः तथाहि -तड़यवनि चहलो, सचित्ताचित्तथूल चोरिजं । तिणमाइतणुअतेणिय- मेसो पुण मोतुमसमत्थो ॥ १६ ॥ व्याख्यागृहस्थस्तृतीये व्रतेऽदत्तादानविरतिरूपे सचित्तं द्विपदचतुष्पदादिकं, अचित्तं सुवर्णरूप्यादि, उपलक्षणत्वान्मिश्रं चालंकृत स्त्रीप्रभृतिकं वस्तु, तद्विषयं स्थूलं चौर्य त्यजेत् , स्थूलत्वं चास्य स्थूलबुद्धेरपि निद्यत्वा चौर्यव्यपदेशहेतु For Private & Personal Use Only द्वितीय प्रकाशे देशविरति स्वरूप ॥१४०॥ www.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy