________________
जिनलाभ
परि
विरचिते
ABOROS
बात्म
प्रबोधग्रन्थे ॥१३५॥
मृयत्तणंपि मन्ने, सारं सारंभवयणसत्तीओ। निम्मडंणं चिअ वरं, जलंतअंगारसिंगारा ॥ १३ ॥ व्याख्या-अ.
द्वितीय हमेवं मन्ये सारंभमसत्यभाषणं मर्मोघहनादिना सपापं यद्वचनं तद्विषया शक्तिस्तस्याः सकाशान्मूकत्वं वाग्वै
प्रकाशे कल्यमपि सारं । अत्र दृष्टांतमाह-ज्वलद्भिर्धगायमानैरंगारैर्यः शरीरशृंगारस्तस्मान्निमंडन मंडनाभाव एव वरं । देशविरति | अयमर्थः-यथा शरीरशोभार्थमपि कृतोऽगारशृंगारः प्रत्युत दाहाद्यनर्थहेतुस्तथा स्वनैपुण्यप्रकाशनायापि प्रारब्धं , खरूपं
सारंभं वचनं प्रत्युत नरकनिपातादिदुःखकारणं भवतीति तत्सकाशान्मूकत्वमपि प्रशस्यते अथास्य व्रतस्य पा. |लितस्यापालितस्य च फलं दश्यते-सच्चेण जिओ जायइ, अप्पडिहयमहुरगु- हिरवरवयणो। अलिएणंमुह| रोगी, हीणसरो मम्मणो मूओ ॥१४ ।। व्याख्या--सत्यवचनेन जीव इह लोके यशोविश्वासादिपात्रं जायते, परलोके पुनरप्रतिहतमधुरगंभोरवरवचनो भवति, अप्रतिहतं कचिदप्पस्खलितं वज्रवत् , मधुरं परिपक्वेक्षुरसवत् , गंभीरं सजलजलधरगर्जितवत् , वरं व्यक्ताक्षरत्वात् कमनीयं वचन यस्य सः। तथा अलीकेन पुनरिह लोकेऽविश्वासदुष्कीादिभाजनं स्यात् । भवांतरे तु मुखरोगी हीनस्वरो मन्मनोमूकश्च भवति । यस्य वदतो वाक् स्खलति स मन्मन उच्यते । अस्य व्रतस्य वाग्विषयत्वात्तत्फलमपि वाग्विषयमेवोक्तं, अन्यथा अविराद्धेनानेन स्वर्गा. दिकं, विराद्धेन तु नरकादिकमपि फलं बोध्यं । अथास्मिन् व्रते व्यतिरेकेण दृष्टांत उच्यते--दप्पेण अलियव. | यणस्स, ज फलं तं न सकिमो वो तु । दक्खिणालीएण वि, गओ वसू मत्तमं नरयं ॥१५॥
व्याख्या--दर्पण स्वमतस्थापनाग्रहेण यदलीकं जिनमतविरुद्धभाषणं तस्यफलमनंतानंतसंसारपरिभ्रमणरूपं
EX
Jain Education inte
For Private & Personal Use Only
ww.jainelibrary.org