SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ जिनलाभसूरि विरचिते आत्म प्रबोधग्रन्थे ॥१३४॥ Jain Education Interna भावो दश्यते-- जे सञ्चव्ववहारा, , तेसिं बुट्ठा वि नेव पहवंति । नाइकमंति आणं, ताणं दिव्वाई सव्वाई ॥ ११ ॥ व्याख्या - ये सत्यव्यवहाराः सत्यवादिनस्तेषां दुष्टाः क्रूरकर्माणोऽपि भूपादयो नैव कष्टं कर्त्तुं प्रभवंति । यथा श्रीकालकाचार्याणां दत्तपुरोहितः, तत्कथानकं तु तृतीये प्रकाशे वक्ष्यते तथा जलमग्निर्द्विटं (१) कोशो, विषं भाषाच तंडुलाः | फालं (फलं ) धर्मः (१) सुतस्पर्शो (सुतः सर्पो), दिव्यानां दशकं मतं ॥ १ ॥ इत्येवंरूपाणि सर्वाणि दिव्यानि तेषामाज्ञां नातिक्रामंति नोल्लंघते, आज्ञा चात्र हे जल ! मा स्म मां निमज्जय, हे वहे! मा स्म मां ज्वालय, ( हे द्विद्-शत्रो ! अस्मात् दूरीभव रे कोश भांडार ! मा रिक्तो भव, रे विष ! माऽस्मान् पीडय, भो माषाः ! माऽस्मान् बाधयत, भोः तंडुलाः ! माऽस्माकमजीर्णं कुरुत, अस्मद्धर्मः मफलो भूयात्, भोः सुत ! म विनीतो भव, भोः सर्प ! माऽस्मान् स्पृश ) इत्येवंरूपा बोध्या । अथ सत्यप्रतिपक्षस्यासत्यस्य भृशं नियता दर्श्यते वयणम्मि जस्स वयणं, निचमसचं वहे बच्चरसो । सुद्धीए जलण्हाणं, कुणमाणं तं हसंति बुहा ॥ १२ ॥ व्याख्या - यस्य वदने मुखेऽसत्यं वचनमेव सर्वजगदनिष्टत्वादपावित्र्यहेतुत्वाच्च वर्चोरसो विष्ठारसोनत्यं वहति तं पुरुषं शुद्धयै शुद्धिनिमित्तं जलस्नानं कुर्वतं बुधा विवेकिनो हसंति, अहोऽस्य मूर्खत्वं यदसौ असत्यवचनान्निरतरं मलिनात्मापि सन् त्वग्मात्रमलक्षालनसमर्थेन जलमात्रेण पावित्र्यमिच्छन् स्नानाद्यर्थमुपक्राम्यतीति । यदपरेऽप्याहुः - चित्तं रागादिभिः क्लिष्ट - मलीकवचनैर्मुखं । जीवघातादिभिः कायो, गंगा तस्य पराङ्मुखी ॥ १ ॥ सत्यं शौचं तपः शौचं, शौचमिद्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पंचमं ॥ २ ॥ इति । किं च- For Private & Personal Use Only द्वितीय प्रकाश देशविरति स्वरूपं ॥१३४॥ w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy