SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ जिनलाभसूरि विरचिते आत्म प्रबोधग्रन्थे ॥१३४॥ Jain Education Interna भावो दश्यते-- जे सञ्चव्ववहारा, , तेसिं बुट्ठा वि नेव पहवंति । नाइकमंति आणं, ताणं दिव्वाई सव्वाई ॥ ११ ॥ व्याख्या - ये सत्यव्यवहाराः सत्यवादिनस्तेषां दुष्टाः क्रूरकर्माणोऽपि भूपादयो नैव कष्टं कर्त्तुं प्रभवंति । यथा श्रीकालकाचार्याणां दत्तपुरोहितः, तत्कथानकं तु तृतीये प्रकाशे वक्ष्यते तथा जलमग्निर्द्विटं (१) कोशो, विषं भाषाच तंडुलाः | फालं (फलं ) धर्मः (१) सुतस्पर्शो (सुतः सर्पो), दिव्यानां दशकं मतं ॥ १ ॥ इत्येवंरूपाणि सर्वाणि दिव्यानि तेषामाज्ञां नातिक्रामंति नोल्लंघते, आज्ञा चात्र हे जल ! मा स्म मां निमज्जय, हे वहे! मा स्म मां ज्वालय, ( हे द्विद्-शत्रो ! अस्मात् दूरीभव रे कोश भांडार ! मा रिक्तो भव, रे विष ! माऽस्मान् पीडय, भो माषाः ! माऽस्मान् बाधयत, भोः तंडुलाः ! माऽस्माकमजीर्णं कुरुत, अस्मद्धर्मः मफलो भूयात्, भोः सुत ! म विनीतो भव, भोः सर्प ! माऽस्मान् स्पृश ) इत्येवंरूपा बोध्या । अथ सत्यप्रतिपक्षस्यासत्यस्य भृशं नियता दर्श्यते वयणम्मि जस्स वयणं, निचमसचं वहे बच्चरसो । सुद्धीए जलण्हाणं, कुणमाणं तं हसंति बुहा ॥ १२ ॥ व्याख्या - यस्य वदने मुखेऽसत्यं वचनमेव सर्वजगदनिष्टत्वादपावित्र्यहेतुत्वाच्च वर्चोरसो विष्ठारसोनत्यं वहति तं पुरुषं शुद्धयै शुद्धिनिमित्तं जलस्नानं कुर्वतं बुधा विवेकिनो हसंति, अहोऽस्य मूर्खत्वं यदसौ असत्यवचनान्निरतरं मलिनात्मापि सन् त्वग्मात्रमलक्षालनसमर्थेन जलमात्रेण पावित्र्यमिच्छन् स्नानाद्यर्थमुपक्राम्यतीति । यदपरेऽप्याहुः - चित्तं रागादिभिः क्लिष्ट - मलीकवचनैर्मुखं । जीवघातादिभिः कायो, गंगा तस्य पराङ्मुखी ॥ १ ॥ सत्यं शौचं तपः शौचं, शौचमिद्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पंचमं ॥ २ ॥ इति । किं च- For Private & Personal Use Only द्वितीय प्रकाश देशविरति स्वरूपं ॥१३४॥ w.jainelibrary.org
SR No.600042
Book TitleAtmaprabodh
Original Sutra AuthorJinlabhsuri, Buddhisagar
Author
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages362
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy